________________
त्रयोदशः सर्गः ।
१४९
श्रद्धानयेयम् । अत्र “काम ० " [२६] इत्यादिना सप्तमी ॥ अकच्चितीति
किम् । कच्चित्पणं मुञ्चसि ॥
[ है ० ० ५.४.२८० ]
तदिच्छाम्यनुमन्येथाः प्रार्थये गच्छ संप्रति ।
अत्रेोषार्थं प्रवेक्ष्यामि कृपे वज्रास्यमक्षिके ।। ७८ ।।
७८. तत्तस्मादिच्छाम्यहं हे पुरुष त्वमनुमन्येथाः कूपप्रवेशेनुमतिं दद्यास्तथाहं प्रार्थये त्वं संप्रति स्वस्थानं गच्छ । शिष्टं स्पष्टम् ॥ इच्छाम्यनुमन्येथाः । प्रार्थये गच्छ । इत्यत्र " इच्छार्थे० " [२७] इत्यादिन सप्तमीपञ्चम्यौ |
सहैव नय मां कुर्याः प्रसादमितिवादिनी ।
कूपप्रवेशविनोयं वल्लभा मे सुलोचना ॥ ७९ ॥ ७९. नाम्ना सुलोचना । शिष्टं स्पष्टम् ॥ संध्यामर्चत्विनं चार्चेदिहासीताथ गच्छतु । रात्र्यन्तेस्मिन्भवान्कि मे चिन्तया हि मुमूर्षतः ॥ ८० ॥ ८०. अस्मिन्निदानींतने राज्यन्ते रात्रिपर्यवसाने भवान्संध्यां प्रभातसंध्यामर्चत्विनं चादित्यं चार्चेत्तथेहास्मिन्स्थान आसीत तिष्ठेद्थाथ वा गच्छतु । हि यस्मान्मुमूर्षतो मे चिन्तया किं न किंचित् । मैचिन्तां मुक्त्वा त्वं संध्यार्चनादिस्वार्थं कुर्वित्यर्थः ॥
अथ भूपस्तमित्यूचे रक्षेः स्वं रक्ष च प्रियाम् । कुर्यां हुल्लडयात्रां किमुतोषं तेर्पयाण्यहम् ॥ ८१ ॥ ८१. स्पष्टः । किं तूताथ वा । ते तुभ्यम् ॥
आख्याहि हुल्लड: कोयं ब्रूयास्तस्य च चेष्टितम् । धेहि स्वास्थ्यं न भीर्घेया दध्याश्रानुमतो मुदम् ॥ ८२ ॥
१ ए सी डी स्वास्थां न,
१ डी 'मन्ये ०. २ ए डी रात्रान्ते.
Jain Education International
३ बी मम चिन्तां .
For Private & Personal Use Only
www.jainelibrary.org