SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १४४ व्याश्रयमहाकाव्ये [ जयसिंहः] भवेर्यदि विवादी त्वं हारयेयमहं यदा। तदङ्गीकृत एवायं त्वत्पणेन पणो मया ॥६६॥ ६५, ६६. अथ दमनस्यैवंभणनानन्तरमहं चाहमप्येवमब्रु(ब)वम् । यथाहं न श्रद्दधे न क्षमे च यत्कोपि कश्चिदपि गर्वी गर्विष्ठः सजातु कदाचिदपि मया सह मिषेद्विवदेत वा । परं यदि त्वं विवादी भवेस्तथा यदाहं हारयेयं हरन्तं पणं प्राप्नुवन्तं त्वामनुकूलाचरणेन प्रयुञ्जीय । कालत्रयेमी प्रयोगाः । तत्तदा त्वत्पणेन कृत्वायमेव भार्यालक्षण एव पणो मयाङ्गीकृतः । भवेरियेयमित्यत्रापि न श्रद्दधे न च क्षम इति योऽयम् । यतोसौ दमनस्यापि वादित्वं स्वस्य हारकत्वं चाश्रद्दधानोक्षाम्यंश्चाह ।। न श्रद्दधे न क्षमे मिषेत्कोपि मया जातु । गर्वी वा विवदेत यत् । हारयेयमहं यदा । भवेर्यदि विवादी त्वम् । इत्यत्र "जातु." [१७] इत्यादिना सप्तमी ॥ धिग्यत्रेत्याक्षिपेर्नस्त्वं तर्जेर्वा यच्च यत्र वा । प्रगल्भेथा जयेर्यञ्च न क्षमे श्रद्दधे न तत् ॥ ६७ ॥ ६७. हे दमन यत्र निमित्तसप्तम्यर्थे तत्र पू(भू?)तोयमों येनासत्यलवलीपुष्पसमर्थनरूपेण निमित्तेन नोस्मानिति जातु त्वं दुर्जनायस इत्यादिप्रकारेणाक्षिपेनिन्देस्तथा यञ्च तर्जेर्वा । यच्चेति क्रियाविशेषणं भार्या मेत्र पण इति यद्दण्डमाविष्कुर्याश्च तद्धिग्निन्दामस्तथा यत्र वा यस्मिंश्च हैमनलवलीपुष्पदर्शनविषये त्वं प्रगल्भेर्थी धार्श्व १ ए सी डी हं चाह. १ सी डी तत्वदा त्वत्पण्येन. २ ए थेत्रत्र. ३ सी डी मे प. ४ सी डी श्व हे दमन ल°. ५ डी गल्भथा. ६ ए सी डी था नक्षमे न श्रद्दधे तत् । इत्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy