SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४२ व्याश्रयमहाकाव्ये भुजंगमः स को नाम योस्माद्विष्याद्धसिष्यति । न श्रदधे न क्षमे वास्मान्वि ( वा वि ?) त्स्यति मिषेच्च यः ॥ ६१ ॥ ६१. नात्याक्षेपे । कः स भुजंगमो योस्माद्विष्यात्तथा योस्मान्हसिष्यति । तथा न श्रदधे न वा क्षमे ययोस्मान्विरोत्स्यति विप्रहीष्यति । तथा योस्मान्मिषेच्च स्पर्धेत । कालत्रयेप्यमी प्रयोगाः । सर्वेपि भुजङ्गा अस्मत्तो हीना इति कीदृगेकस्त्वं य एवमस्मासु द्वेषोपहास विरोधस्पर्धाः करोषीत्यर्थः । स्पर्धमानः स कृष्णमित्यादाविवा - स्मन्मिषेदित्यत्र सकर्मकत्वम् ॥ न श्रद्दधे न क्षमे वा पुराहमपि दुर्मते । किं भवानेवमस्मासु ब्रूयाच्चेष्टिष्यतेथ वा ।। ६२ ।। ६२. हे दुर्मते कुटिलाशय किं भवानेवमुपहासादिप्रकारेणामासु विषये ब्रूयाद्भाषेत । अथ वैवमुपहासादि चेष्टिष्यते चक्षुविक्षेपविशेषादिना करिष्यति । कालत्रये प्रयोगाविमौ । इदमहं पुरा 3 [ जयसिंहः ] ४ पूर्वं न श्रद्दधेपि न क्षमेपि वा । “पुरायावतोर्वर्तमाना” [ ५. ३. ७. ] इत्यतीते वर्तमाना । तव मायिनस्त्रिकालविषये एवं वचनचेष्ठे परैरुक्ते अप्यहं सरलाशयत्वात्पुरा न संभावितवानपि न च सोढवानपीत्यर्थः ॥ भुजंगमः स को नाम यस्माद्विष्यादसिष्यति । इत्यत्र " किंवृत्ते ०" [१४] इत्यादिना सप्तमीभविष्यन्त्यौ ॥ न श्रद्दधे न क्षमे वा योस्मान्मिषेद्विशेत्स्यति च ॥ किंवृत्तेपि । न श्रदधे न १ बी यसि । न. १ ए सी डी 'थामा. डी षिवा. ५ डी व्यथ. Jain Education International २ सी दुर्गते. ३ ए सी डी रिति. For Private & Personal Use Only ४ सी www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy