SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३० व्याश्रयमहाकाव्ये [ जयसिंहः] अवतार्याः । अवस्तार । इत्यत्र “ अवात्तृस्तृभ्याम् ” [ १३३ ] इति घञ् ॥ बहुलाधिकारादसंज्ञायामपि । अवतार । भावे घञ् । उत्पूर्वादपि । उत्तारे ॥ शुक्संहारः कृपाधारो गुणावायोथ भूपतिः । वचः कुञ्जे लतोद्यावे श्रुत्वेत्यभिससर्प सः ॥ ३० ॥ ३०. अथ स भूपतिर्जयसिंह इति पूर्वोक्तं वचः श्रुत्वा लतोद्याव उद्यूयन्ते तिलादयोस्मिन्नुद्यावो यज्ञपात्रं लतानामुद्याव इव वली - नामाधार इत्यर्थः । कुजे वनगहनेभिससर्पाभिमुखं ययौ । यतः कीदृक् । शुचः शोकस्य संहारो मधुरवचनादिना प्रलयकालतुल्यस्तथा कृपाधारः कृपालुः । कृपाधारोपि यदि शौर्यादिगुणहीनः स्यातदा तत्र गन्तुं न शक्नुयादित्याह । गुणावाय एत्य वयन्त्यत्रावार्य - स्तन्तुवायशाला गुणः शौर्यादय एव गुणास्तन्तवस्तेषामावाय इव ॥ तत्र स्वदार संतुष्टो न्यायाध्यायो ददर्श सः । अजारचेष्टितं द्वन्द्वमवहारालयोपमः ॥ ३१ ॥ ३१. अवहारालयो ग्राहाकरोब्धिस्तेनोपमा यस्य स तथाब्धिगम्भीरः स राजा तत्र कुजे द्वन्द्वं स्त्रीपुरुषमिथुनं ददर्श । कीदृशम् । नजराणां चेष्टितं चौर्यरतव्यञ्जिका व्याकुलत्वादिचेष्टा यस्य तत् । न च वाच्यमसौ कामवासनया स्त्रीदर्शनाभिलाषेणैतद्ददर्श । यतः स्वदारसंतुष्टः । एतदपि कुत इत्याह । न्यायाध्यायो न्यायस्याध्याय इव मूर्तं नीतिशास्त्रमिवेत्यर्थः ॥ न्यायँ । आवायः । अध्यायः । उद्यावे | संहारः । अवहार | आधारः । I दार । जार । इत्येते "न्याय ० " [ १३४ ] इत्यादिना निपात्याः ॥ १ए वास्तू बी वास्तुभ्या २ सी 'यशा'. गुणा शौ. ४ बी 'णाः ७ सी डी ध्याय । उौं, Jain Education International • सौर्या ५ बी न्यायध्या. ८ ए बी सी 'हार: । आ. ३ ए सी डी ६ बी 'य । अवा. For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy