________________
[है० ५.३.११५.] त्रयोदशः सर्गः।
१२३ पर्येषणया । परीष्टया । अँध्येपणा । अनधीष्टि । इत्यत्र “पर्यधेर्वा" [११३] इति वानः ॥
क्रुधा काकयुदुद्धके कुञ्जथाभीः स भीतिदे।।
समसंपद्विपद्धूप इति दीनं वचोशृणोत् ॥ १७ ॥ १७. अथ स राजा कुजे वनगहनमध्य इति वक्ष्यमाणं दीनमार्तं वचोशृणोत् । कीडक्सन । समे तुल्ये संपद्विपदौ यस्य स तथा महापुरुषत्वात्संपद्यहृष्यन्विपदि चाविषादीत्यर्थः । अत एवाभीः । किंभूते कुजे । भीतिदे भयप्रदेपि । यतः क्रुधा हेतुना काकयुधि काकैः सह रण उदुद्यता घूका यत्र तस्मिन् । यद्वचोशृणोत्तदाह ।
नाथोज्झसि किमहीर्मा ह्रीतिं त्यक्त्वा मया कृताम् । व्यावभाषीं व्यतीहां च व्यतीक्षां चास्मरन्निव ॥ १८ ॥ १८. हे नाथाविद्यमाना ह्रीर्मत्यागविपया लज्जा यस्य सोहीः संस्त्वं ह्रीतिं लज्जां त्यक्त्वा मां किमित्युज्झसि । कीडगिव । अस्मरन्निव । काम् । मया कृतां व्यावभापी विनिमयेन प्रेमालापं तथा व्यतीहां विनिमयेन नखक्षतादिस्मरचेष्टी च तथा व्यतीक्षां च विनिमयेन कटाक्षरीक्षणं च । एकान्तानुरक्तां स्वप्रेयसी मामजानन्निवेत्यर्थः ॥
क्रुधौं । युत् । संपत् । विपत् । इत्यत्र "कुत्” [ ११४ ] इत्यादिना विप् ॥
१ ए सी डी ह्रीमां ही . २ ए सी डी तीक्षा च.
१ ए अध्यैप. २ ए सी डी °लापां त°. ३ बी टां त . ४ सी रक्तास्व. ५ ए सी डीधा । यत्.
डी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org