SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [है० ५.३.१०७.] त्रयोदशः सर्गः । १२१ प्रशंसाम् । जुगुप्साम् । अत्र “शंसि." [ १०५] इत्यादिना-अः ॥ ईहाम् । अत्र "क्केटः०" [ १०६ ] इत्यादिना-अः ॥ क्षमा भिदाच्छिदाभीषां सोसिभूषो व्यलङ्घयत् । पूर्वाद्भुतकथाचिन्ताचर्चापूजास्पृहापरः ॥ १३ ॥ १३. स नृपो भिदाच्छिदाभीपां पशुमत्स्यादिविदारणद्विधाकरण रौद्रां क्षमा पूर्वाह्य चण्डालमात्सिकादिसंबन्धिभूमि व्यलङ्घयत् । कीदृक् । असिना भूषा यस्य सोसिभूषस्तथा पूर्वेषां रामादीनामद्भुता याः कथास्तासां या चिन्ता स्मरणं चर्चा मनसि विचारः पूजा बहुमान: स्पृहेच्छा तत्परः ॥ अदोलातोलचित्तः सोप्रमाः कुम्बाश्च लङ्घयन् । चित्रकामनया प्राप नदी ब्राह्मीमवेदनः ॥ १४ ॥ १४. स राजा चित्रकामनयाश्चर्याभिलाषेण ब्राह्मीं नदी सरस्वती प्राप । कीहक्सन् । न दोलायाः प्रेङ्खायास्तोला साम्यं यस्य॑ तच्चित्तं यस्य सः । सात्विकत्वान्निश्चलचित्तोत एवावेदनो भयोत्थदुःखरहितोत एवाप्रमाः प्रमाणरहिता असंख्याः कुम्बाश्च न केवलं भिदाच्छिदाभीषां क्षमा सुगहना यज्ञवृत्ती(ती?)श्व लङ्घयन् ।। वन्दनोपासने कृत्वा सोञ्जलिग्रन्थनादिभिः । पादाभिघट्टनोदुर्मिश्रन्थनामुत्ततार ताम् ॥ १५ ॥ १५. स राजाञ्जलिग्रन्थनादिभिरञ्जलिरचनास्नानादिभिः कृत्वा १ ए त्वा तां नदी. १ ए पो सिदा. २ बी रणाद्वि'. ३ डी रणे रौ०. ४ बी मात्स्यका". ५ ए सी डी भूमिमभ्यल'. ६ वी स्य सः. ७ डीन् । चन्द. ८ डी त्वा चन्द. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy