SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [है० ५.३.१००.] त्रयोदशः सर्गः । ११९ यानामास्यासमज्यास्वास्यायायुपवेशनाय समयासु सभासु यज्ञपाटकेवित्यर्थः । यदीदृशाः पुण्यात्मानो विद्याभृत्या मया दृष्टास्तेन चर्यायाः फलं महज्जज्ञ इत्यज्ञासीदित्यर्थः ॥ निपद्यायां निषद्यानिपत्याशय्याजुषश्वरान् । सोज्ञासीच्छद्मसुत्यौपः स्थिरमन्येत्यया कचित् ॥९॥ ९. क्वचित्स नृपश्चराञ् शत्रुहेरिकानज्ञासीत् । किंभूतान् । निपद्यायां राजमार्गे निषद्या हट्टास्ता एवात्युच्चत्वान्निपत्या भैरवपातभूमयस्तासां शय्या रचनाविशेषास्तज्जुषः । तथा छद्मना किल वयं यागार्थ सुत्याविनायिणो द्विजा इति व्याजेन सुत्यां सोमाधानपात्रं पान्ति ये तांश्छद्मना वल्लीरसपात्रधारकानित्यर्थः । एवंविधानपि कथमज्ञासीदित्याह । स्थिरमन्येत्यया स्थिरा मन्या कन्धरा यत्र सा येत्या गतिस्तया कृत्वा । तान् क्षुद्रतया जनानां राजवातौं कुर्वतां सावधानत्वान्निश्चलप्रीवया श्रावं श्रावं गच्छतो दृष्ट्वा । चरा एत इति राजाज्ञासीदित्यर्थः ॥ आस्या । अव्यया । प्रव्रज्या । इज्या । इत्यत्र “आस्यटि०" [ ९७ ] इत्यादिना क्यप् ॥ भृत्यान् । अत्र "भृगो नाम्नि" [ ९८ ] इति क्यप् ॥ समज्यासु । निपत्या। निपद्यायाम् । निषद्या । शय्या । सुत्या । विद्या। चर्या । मन्या । इत्यया । इत्यत्र “समज.” [ ९९ ] इत्यादिना क्यप् ॥ जनेच्छाकृत्ये जिज्ञासुः कापि गूढाकृतिक्रियः । तृष्णां याचां कृपां श्रद्धा भान्तर्धा च स निर्ममे ॥१०॥ १ सी डी त्याप स्थि. २ बी 'द्धां चान्त. १ ए सी डी त्रुहरि . २ सी डी निपद्या. ३ डी क्षुप्रत°. ४ ए सी डी त्वानिश्च. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy