________________
११६
व्याश्रयमहाकाव्ये
[जयसिंहः ]
यज्ञरक्षां करोमि न वेति कथं वा करोमीत्यादिपृच्छाया याचथुर्याचा यस्य स तथा स्वयमेवेत्यर्थः । तेन हेतुना राड् जयसिंहोयाचित्रिमं याञयानिवृत्तं स्वाभाविकं प्रसादं बर्बरस्य व्यधात् ॥
रैनिकायान् । इत्यत्र “चिति." [ ७९ ] इत्यादिना घञ् । आदेश्च कः । रक्षोनिकाय । इत्यत्र “संघेनू" [ ८० ] इति घञ् कश्चादेः ॥ संघ इति किम् । माणिक्यनिचयान् । बहुत्वमात्रमत्र विवक्षितं न संघ इति व्यावृत्तिः ॥
एकदृषन्निश्चाय । अन्नसंग्राह(हे) । इत्यत्र "माने" [८१] इति घञ् ॥ संस्थया । अविघ्नम् । इत्यत्र “स्थादिभ्यः कः' [ ८२ ] इति कः ॥ नन्दथु । इत्यत्र "द्वितोथुः" [ ८३ ] इत्यथुः ॥
अकृत्रिमम् । अयाचित्रिमम् । अत्र “ड्वितः०" [ ८४ ] इत्यादिना निमक् ॥ विद्याचिरिति कश्चित् । याचथुः ॥
यज्ञ । स्वप्ने । रणे । यत्नः । प्रश्न । इत्यत्र “यजिम्वपि." [८५] इत्यादिना नः ॥
स विश्नविधिनाब्ध्यादावपि सान्तर्धिराज्ञया ।
त्यक्तसंकुटनोसांकोटिनं नृपमरञ्जयत् ॥ ४ ॥ ४. स बर्बरोब्ध्यादावपि समुद्रनद्यादावपि विश्नविधिना प्रवेशकरणेन हेतुनासांकोटिनमकुटिलं नृपमर जयत् । कीहक्सन् । त्यक्तसंकुटनो मुंक्तकौटिल्योत एवाज्ञया नृपादेशेन सान्तर्धिर्मत्रादिशत्यादृश्यः ।।
१ए °या। रक्त.
१ए दिनापृ. २ बी निवृत्तं. ३ ए व्यवधा . ४ सी तोथूः । अ°. डी तोथुः । अं. ५ ए बी यज्ञः । स्व. ६ सी डी संकट. ७ ए सी डी मुकुटको .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org