SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ९४ ध्याश्रयमहाकाव्ये [जयसिंहः] कीदृशमस्त्रम् । विदितेष्टसंपूजितं विदितं नानाजयश्रीहेतुत्वेन सर्वत्र प्रसिद्धमत एवेष्टं वल्लभमत एव च [सं]पूजितं पुष्पोपहारादिनार्चितम् ।। ज्ञानार्थ । ज्ञात । विदित ॥ इच्छार्थ । इष्ट । मत ॥ अर्चार्थ । अर्चितः । पूजितम् ॥ जीत् । तृषितः ॥ शील्यादि । शीलिते । रुषितः । अत्र “ज्ञान०" [ ९२ ] इत्यादिना सत्यर्थे क्तः । वायु । भव । चिर । इत्यत्र "उणादयः" [ ९३ ] इति सत्यर्थ उणादयः ।। अष्टादशः पादः ॥ समरंगमी त्वं प्रतिरोध्यथो चेद्विशिखैश्च वृष्टो विजयश्च जातः । प्रजनिष्यते कीर्तिरितीरितोसौ मुनिभिः सकष्टै रथमारुरोह ॥५०॥ ५०. असौ जयसिंहो रथमारुरोह । कीडक्सन् । सकष्टैः सदुःखैमुनिभिरीरित उक्तः । कथमित्याह । हे राजंस्त्वं चेद्यदि समरंगमी गमिष्यस्यथो तथा चेत्त्वं प्रतिरोधी शत्रून् रोत्स्यसि तथा त्वं चेद्विशिखैर्वाणैर्वृष्टश्च वर्षिष्यसि तदा विजयो जातो जनिष्यते कीर्तिश्च प्रजनिष्यप्त इति ॥ कैषितद्विषोस्याह भटान्म वेत्री क गमिष्यथ श्वोपि यमः प्रहर्ता । न मरिष्यथ श्वोद्य कदाजिपारं ब्रजितास्थ पादानिति यन्निधत्थ ॥५१॥ ५१. कषितद्विपोस्य जयसिंहस्य वेत्री भटानाह स्म । यथा रे भटा यूयं क गमिष्यथ मृत्युभयेन नंष्ट्वा क यास्यथ । यतः श्वोपि कल्येपि युष्मान्यमः प्रहर्ता ततश्चाद्य श्वो वा न मरिष्यथ किं त्वद्य १ ए °श्च पृष्टो. २ डी कथित'. १ ए त् । मृषि. २ ए सी डी ते । ऋषि. ३ बी भिरितीरि. ४ ए °न नष्ट्वा क या. ५ ए सी डी हरति त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy