________________
व्याश्रयमहाकाव्ये
[अयसिंहः]
स्थावर । ईश्वर । भास्वर । पेस्वरकम् । अविकस्वराः । अत्र "स्थेश०” [८१] इत्यादिना वरः ॥ प्रमदेरपीति कश्चित् । प्रमहरतया ॥ तदुदीक्ष्य यायावरमाशु सैन्यं त्रिजगद्ददृद्दिधुदुषाचरेभ्यः । अजुहूरवाक्प्राडपजूरधीश्रीरभवत्परिवाइजन आयतस्तूः ॥४४॥
४४. आयतं स्तोत्यायतस्तूर्यायजूकः परिब्राड्जनो मुनिलोकोभवत् । कीहक् । अजुहूर्भयातिरेकेण जुहूनां पाताज्जुहू मिः सुम्भिर्यज्ञोपकरणभेदै रहितस्तथावाक्प्राडवाक्सन्पृच्छकोतिभयाद्धस्ता दिसंज्ञया किमभूदिति प्रष्टेत्यर्थः । तथापकृष्टं जानुदन्तभङ्गादिना निन्दितं यथा स्यादेवं जवति धावत्यपजूस्तथाधीश्रीर्बुद्धिशोभारहितः किंकर्तव्यतामूढो दीनश्चेत्यर्थः । किं कृत्वा । तत्सैन्यं जयसिंहकटकमुदीक्ष्य । किंभूतम् । त्रिजगतो ददृतो विदारणशीला दिद्युतो विजयेन द्योतनशीला य उषाचरा राक्षसास्तेभ्य आशु यायावरं नश्यदित्यर्थः ।। करिणां कटपून मदो ढुवां सूस्तदनूर्गविभ्राविभु बृंहितं न । अपतन्पवित्रासुरभित्स्वयंभुप्रभुशंभुसभुस्मरणाश्च योधाः ॥ ४५ ॥
४५. दुवां नश्यतां करिणां मदो न सून स्रवति भयेन मदः शुष्क इत्यर्थः । कीदृक् । कटेभ्यो गण्डेभ्यः प्रवते निर्गच्छति कटप्रूः पूर्व प्रवाहेण वहन्नपीत्यर्थः । तथा करिणां तद्यत्पूर्वमूर्जस्वलं तारं च सद्वित्वा(?)सीत्तदपीत्यर्थः । श्रृंहितं शब्दितं न विभु न व्यापकमभूत् । कीहक्सत् । अनूगर्भयेनानूर्जस्वलमत एवाविभ्राडतारम् । तथा योधा अपतंश्च भूमौ पतिताः । किंभूताः सन्तः । पवित्रो भगवानहन
१ ए सी डी रच्छित्स्व.
१ ए बी ति पृष्टे'. २ बी श्रीबुद्धि'. ३ ए सी डी तो वदृ. ४ बी नस्यदि. ५ बी न श्रव. ६ बी द्वित्तासी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org