________________
व्याश्रयमहाकाव्ये
[जयसिंहः ]
__२९. शमिषु जितेन्द्रियेषु दमिषु तपःक्लेशसहेष्वनुन्मादिषु निरहंकारेषु योगिषु मुनिषु मध्ये कोपि नाजनि । कीदृक् । तमी रक्षोभयेन मनःपीडावान् ।क्लमी धात्वपचयवान् । श्रमी खेदवान् । भ्रमी वा मूर्छावान्वा । किं कृत्वा । क्ष्माभुजि जयसिंहे द्वेषिवधाय तं यत्नमादरं वीक्ष्य । किंभूते । क्षमिभागिणि क्षमिणो मुनीनायितरि तथा त्यागिनि दातरि तथा रागिणि मुनिष्वनुरागिणि ॥ अथ दोषिणां द्रोह्यवनेः स भोगी यमुनां नु दोही हरिरापगां ताम् । भृशमापदाक्रीड्युपतीर्थमामोष्यभिसर्पदभ्यादिकधात्युपाटाम् ३०
३०. यथा दोही दोहनशीलो गोपवेषधारी हरिविष्णुर्यमुनामापत्तथावनेर्भोगी रक्षिता स जयसिंहस्तां राक्षसाक्रान्तत्वेनोक्तामापगां भृशमापत् । कीदृक्सन् । दोषिणामन्यायिनां रक्षसां द्रोही जिघांसुरत एवोपतीर्थमवतारसमीप आक्रीडी रन्ता सरस्वत्यास्तीर्थे प्रापेत्यर्थः । किंभूताम् । आमोषिणश्चौरा अभिसर्पन्तोभिमुखं गच्छन्तोभ्यादिकघातिनोभ्याघातिनोभिमुखमाहन्तार उपाटा राक्षसा यस्यां ताम् ॥
शमि । दमि। तमी । श्रमी । भ्रमी । क्षमि । अनुन्मादिपु । लमी । इत्यत्र “शम०" [ ४९ ] इत्यादिना घिनण् ॥
१ ए दिघात्युषष्टाम्.
१ सी पु म. २ सी डी मी स्वेद'. ३ बी °स्तां रक्ष°. ४ ए पीपी आ. सी डी ॰मीपं आ°. ५ सी स्वत्यां तीथे. डी खत्यां तीर्थ प्रा. ६ ए त्या तीथे. ७ ए "रा आभि. ८ डी नोभ्याघातिनोभि. ९ ए उटाटा. १० ए यस्या ता. बी यस्याम् ॥. ११ ए बी धिनिण्. सी घिनेण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org