SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ढ्याश्रयमहाकाव्ये [ जयसिंहः ] नैवाधिज्यं जज्ञि भवनशीलं यतो मम विनयमभ्युत्थानादि दधौ कर्तरि तथा नेम्युपचक्रिसस्रौ नेमौ नन्तर्युपचक्रावुर्पकर्तरि सस्रो गन्तरि मां सेवितरीत्यर्थः ।। रिपुशारुको मे जयलक्ष्मिकार्मुक्यभिलाषुकोसावुपपादुकोसिः । अभिगामुकोत्पातुकराक्षसाः क्षितिमण्डनो मद्भुजभूषणोस्तु ॥२३॥ २३. असौ मद्धृजभूषणोसिरभिगामुका बलावलेपात्संमुखागामिन उत्पातुका उत्पतनशीला ये राक्षसास्तेपामौ रक्तैः कृत्वा क्षितिमण्डनोस्तु गलद्भिः शोणितविन्दुभिर्भूमिं भूपयत्वित्यर्थः । कीहक्सन । मे जयलक्ष्मिकार्मुक्यभिलापुको जयश्रीकामिन्या इच्छुरत एव रिपुशारुकः शत्रूणां हिंस्रोत एव चोपपादुको युक्तः श्रेष्ठ इत्यर्थः ॥ न न कोपनः क्रोधन एव तेषु न न गर्धनः संलपणो जयस्य । सरणोमि तस्मिञ्जवनैहयैरित्यभिधाय सोतिज्वलनोभ्युदस्थात् ॥२४॥ २४. अतिज्वलनः कोपेन प्रतापेन वातिदीप्रः सन्स नृपोभ्युदस्थात् । किं कृत्वा । अभिधाय । किमित्याह । अस्म्यहं जवनैवेगवद्भिर्हयैः कृत्वा तस्मिन् राक्षसेशविषये सरणः साधु गन्ता । कीदृक्सन् । जयस्य न न गर्धनो लिप्सुः किं तु संलपणो लितुरेवात एव तेषु राक्षसेषु न न कोपनः किं तु क्रोधन एवेति ॥ १ ए सी डी 'मुकाभि'. २ ए पाटुको'. ३ डी रिचय'. १ ए तो सम वि. २ ए सी डी पधाक. ३ ए सी डी उज्जीवन . ४ ए सी डी °न् । विज. ५ ए सी डी 'मुकोभि. ६ वी शारकः. ७ ए रा -श. सी डी राक्षसवि'. ८ गन्तः । की'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy