________________
७४८
व्याश्रयमहाकाव्ये
[कर्णराजः]
नृपानवगणय्यान्यान्खेदं प्रापय्य नः सखी । कर्ण प्राप्य मनोत्रागादप्रमित्य वचोसि किम् ॥ १६५ ।। १६५. नोस्माकं सख्यत्र गूर्जरत्रायामागात् । किं कृत्वा । अन्यानृपानुद्वोढुमिच्छून् राज्ञोवगणय्यावज्ञाय । अत एव तान्खेदं प्रापय्य ततो मनः स्वचित्तं कर्ण प्राप्य नीत्वानुरागेण कर्ण मनसि कृत्वेत्यर्थः । तस्माद्वचोहं कर्ण इति वचनमप्रमित्याप्रतिदाय किमसि किमिति तिष्टसि । प्रतिवचनं दत्स्वेत्यर्थः ॥
अप्रमाय करं कर्णश्चेत्सराजय्यतां भजेत् ।
अयशोकय्यमक्षय्यमेषा प्रक्षीय दास्यति ।। १६६ ॥ १६६. चेत्कर्णः करमप्रमायैतत्करग्रहणपूर्व स्वपाणिमदत्वैतामपरिणीयेत्यर्थः । स्मराजय्यतां स्मरस्य कतुर्जेतुमशक्यतां भजेद्धैर्यातिशयात्स्मरेण जेतुमशक्यो यदि स्यादित्यर्थः । तदेषा कन्या प्रक्षीय विनश्यायशो दास्यत्यर्थात्कर्णस्य । किंभूतम् । अक्रय्यमकस्मादुपनतमित्यर्थः । अक्षय्यमनेकावदातैरपि क्षेतुमशक्यम् ।।
अवगणय्य । इत्यत्र "लघोर्यपि" [ ८६ ] इत्यय् ॥ प्रापय्य प्राप्य । इत्यत्र “वाप्नोः” [ ८७ ] इति वाय ॥ अप्रमित्य अप्रमाय । इत्यत्र “मेडो वा मित्" [ ८८ ] इति वा मित् ॥ प्रक्षीय । इत्यत्र "क्षेः क्षी(क्षी:)" [ ८९ ] इति क्षीः ॥ अक्षय्यम् । अजय्यताम् । अत्र "क्षय्यजैय्यौ'' [९०] इत्यादिना निपात्यौ ॥ ऋय्यम् । इति "क्रय्यः क्रयार्थ" [ ९१ ] इति निपात्यम् ॥ १ ए 'श्वेत्सरा. १ ए जरावा. २ ए बी सिकृत्येत्य. ३ बी सी किमि . ४ सीडी करग्र. ५ ए स्वप्राणि'. ६ डी °णीयो इ. ७ ए बी डी अनव. ८ ए त्यव ल. ९ बी वाप्नोतिरिति. १० ए वाइय्. सी वाडय. ११ डी त्र क्षः क्षी. १२ सी म् । अजय्यम् । अ. १३ ए °जयो क्षय्य इ. १४ बी ग्यौ क्षय्य इ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org