SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [कर्णराजः] यच्चोलकमधास्तनाद्यापि कन्यात्वमत्यगाः । आर्तेवास्था यदेव त्वं सरस्तत्त्वां शरैरदात् ॥ १४५ ॥ १४५. यत्त्वं चोलकं कन्योचितं सर्वाङ्गीणकञ्चुकविशेषर्मधाः परिधानेनाधारयस्तैज्ज्ञायते त्वमद्यापि कन्यात्वं नात्येगा नात्यक्रमीः । तथा यत्त्वमत्र शैत्यरम्यत्वादिसुखकारिसर्वगुणोपेतकदलीगृह आतेव पीडितेवास्थास्तज्ज्ञायते त्वां स्मरः शरैरदादखण्डयत् । अत्र हि स्थाने कामाँति मुक्त्वान्या पीडा न स्यादेवेत्यर्थः । एतेन मनोभीष्टः कोपि ते दुर्लभोस्तीति द्रढितम् ॥ अथ दुर्लभमेव नामादिना स्पष्टं पृच्छति ॥ सुभगं के दृशापास्त्वं येन तेभूदृशेदशी । अङ्गोष्माश्रूण्यधासीयच्छ्वासोधादधरच्छविम् ॥ १४६ ॥ १४६. त्वं कं सुभगं वल्लभं दृशापा अपिवः किं नामाद्युपेतं सुभगं त्वं सतर्षमपश्य इत्यर्थः । येन सुभगेन हेतुना ते तवेदृशी दशावस्थाभूद्यत्किं यदङ्गोष्माङ्गसंतापोशूणि नेत्राम्बून्यधासीदपाद्गण्डस्थलोपरि पतितान्यशोषयदित्यर्थः । यच्च श्वासो दुःखान्निश्वसनमधरच्छविं सरसत्वरूपामधरशोभामधादशोषयत् ॥ अथोद्यानसंभविनावन्यावपि व्यथाहेतू आशङ्कय पृच्छति ॥ किं वा किंपाकमच्छासीरघासीश्वेह दारुणम् । अच्छा अघ्रा अयुक्पर्ण वाथ यत्सुभ्र दूयसे ॥ १४७ ॥ १ ए त्वसत्य. २ ए दव त्वं. ३ ए सीवेह. ४ ए यसुभ्रु. १ बी डी चितस. २ ए मधा प. ३ ए स्तद्जाय'. ४ बी डी ते तत्त्वम . ५ ए त्यरगा. ६ बी डी पेते क°. ७ ए °मार्तमु. ८ सी ति ॥ दु. ९ ए यद्यश्वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy