SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ ७३६ व्याश्रयमहाकाव्ये [कर्णराजः] १४१. हे सुभ्र भीरदृष्टपूर्वमदर्शनोत्था भीतिः कीं त्वां मा स्म प्रोर्णोद्व्यापत् । मा स्म वा । वा समुच्चये। मा स्म च मयि विषये स्वमात्मानं त्वं प्रोर्णोराच्छादयेर्यथावस्थितमात्मानं प्रकटयेरित्यर्थः । यतस्ते मूर्तिराकृतिरेव संशयमद्भुतगुणत्वादिविषयं संदेहं तृणेढ्यपनयति तथोचैरुन्नतं कुलं वंशं ब्रवीति च । आकृतिरेव त्वदीयं स्वरूपं वंशं चोन्नतं वक्तीति तवात्मनोपह्नवो निरर्थक एव यत इत्यर्थः ।। मा स्म प्रोर्णोत् । मा स्म प्रोर्णोः । अत्र “न दिस्योः" [६१ ] इति-और्न ॥ तृणेढि । इत्यत्र "तृहः श्नादीत् ” [ ६२ ] इति-ईत् ॥ ब्रवीति । इत्यत्र “बूतः परादिः” [६३ ] इति-ईत् ॥ बोभवीष्यप्सराः किं किं बोभोष्युद्यानदेवता । यत्ते वर्वति लावण्यं दिव्यतां वावदीति तत् ॥ ४२ ॥ १४२. किं त्वमप्सरा देवी बोभवीष्यत्यर्थं भवसि किं वोद्यानदेवता बोभोषि । यस्माद्यत्ते लावण्यं वर्वर्त्यतिशयेन वर्तते तल्लावण्यं ते दिव्यतां स्वर्गभवत्वं वावदीति ॥ तौषि क वंशे काम्बेति स्तौषि तातेति रौषि च । किं तवीष्यत्र के वा संस्तवीषि न रवीषि किम् ॥१४३॥ १४३. क वंशे तौषि वर्तसे । क कस्यां स्त्रियांमम्बेति मातेति १ए °त्र किं वा सस्त. १ ए रइष्ट. २ बी मदर्श'. सी मदर्श. ३ ए °दयोर्य. सी डी 'ययथा. ४ ए दिश्योः इ. ५ ए औनं ॥ तृ'. ६ ए °यानम्बे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy