________________
७२७
[है० ४.३.४४.] नवमः सर्गः।
अनैषीत् । इत्यत्र "सिचि" [ ४४ ] इत्यादिना वैद्धिः । अङितीति किम् ॥ न्यधुवीत् ॥
न काप्यराजीनादेवीनारौत्सीदिङ्गितं नृपः । प्रौर्णावीन्नाकृतिं नौक्यं प्रौर्णवीत्सोकणीत्परम् ॥१२४॥ १२४. कामेन धनुपि कम्पिते स नृपः कापि शयनासनभोजनादौ नाराजीनारज्यन्नादेवीजलक्रीडादिक्रीडाभि क्रीडत् । तथेङ्गितं मयणल्लारूपलेखनादिस्मरविकारचेष्टितं नारौत्सीत्स्मरोद्रेकेण धैर्यभ्रंशान संवृतवान् । तथाकृति स्तम्भादिविकारान्वितमाकारं न प्रौर्णावीन्न संवृतवांस्तथौत्क्यं मयणलाविषयोत्कण्ठां न प्रौर्णवीत्परं केवलमकणीत्कामोत्थसंतापातिरेकेणार्तस्वरं व्यलपत् ।।
सोकाणीद्यावदज्वालीदत्सारीच तदुत्सुकः ।
आबाजीदित्यवादीच तावन्ना जयकेशिनः ॥ १२५॥ १२५. स कर्णस्तर्दुत्सुको मयणल्लायामुत्कण्ठित: सन्यावदज्वालीसैमताप्सीदत एवाकाणीदोर्तस्वरं व्यलपदत्सारीच्च शून्यचित्ततयालीकगतिं च चक्रे तावजयकेशिनो ना पुरुष आवाजीदाययाविति वक्ष्यमाणमवादीच्च ॥
१४
१५
१ ए सी दिगितं. २ ए कृतं नौवयं प्रौ. ३ ए त्सुका । आ. सी "त्सुक । आ.
१ ए सिषि इ. २ ए वृद्धौ ॥ अ. ३ ई दिमि. ४ ए °भिन्ात्तथे . ५ ए नाविस्म'. ६ ए सी कृतिस्त. ७ ए योक्त्यं म. बी थौक्ष्यं म. ८ ए "त्कण्ठा न. ९ ई पन् ॥ सो'. १० बी दुत्सको. ११ ए °ण्ठितासत्यावदद्वतली. १२ डी
समन्तादता. १३ बी सी डी दार्च व्य. १४ ए सी रीश्च शू. १५ सी डी कमतिं. १६ बी सी डी तिं चक्रे च ता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org