SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.३९.] नवमः सर्गः। ७२५ यथा समगतोमेशे श्री कृष्णे समगस्त च । संगसीष्ट त्वयि तथा सा शुभैः संगसीष्ट च ॥ १२० ॥ १२०. यथेशे शंभावुमा गौरी समगत संबद्धाभूद्यथा कृष्णे श्रीः समगस्त च तथा सा कन्या त्वयि संगंसीष्ट संबद्धीभूयात्तथा शुभैः पुत्रलाभादिभिः संगसीष्ट च ॥ समगत समगस्त । संगसीष्ट संगसीष्ट । इत्यत्र “गमो वा [३७] इति वा किद्वत् ॥ मा ते व्याहत विघ्नोत्रेत्युक्त्वा चित्रकृति स्थिते । रागमन्तर्गतं राज्ञो रोमोद्गम उदायत ॥ १२१ ॥ १२१. राज्ञः कर्णस्य रोमोद्गमो रोमाञ्चोन्तर्गतं रागमुदायतासूचयत् । दोषाविष्करणं चात्र धैर्यगाम्भीर्यगुणान्वितस्य राज्ञो रागदोषस्य प्रकटनात् । क सति । चित्रकृति स्थिते । किंकृत्वा । उक्त्वा । किमित्याह । हे राजन्नत्र मयणल्लाविषये ते तव विनोन्तरायो मा व्याहत मा व्याघातं कार्षीदिति ॥ व्याहत । इत्यत्र "हनः सिच्" [३८] इति सिंच किद्वत् ॥ उदायते । इत्यत्र “यमः सूचने” [३९] इति सिच् किद्वत् ॥ उपायत नृपो रत्नान्युपायंस्त च काश्चनम् । अदितासै गृहीत्वासौ प्रास्थिताधित संमदम् ॥ १२२ ॥ १ डी म् । आदि. १ बी मो विति. २ ए कृत्वेक्त्वा. सी डी कृत्वेत्युक्त्वा. ३ बी सी डीई ये त.° ४ ई सिच कि. ५ बी सी डी त । अत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy