SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] 1 १००. इह चन्द्रपुरे जयकेशी नाम राजास्ति । कीदृक् । ओजसा प्रतापेन बलेन वा द्विषां प्रोर्णविता छादकोत एव कीर्त्या दिशां प्रोर्णुविता व्यापकोत एव च यं जयकेशिनं रोदसी स्तुतः श्लाघेते वित्तश्च जानीतश्च ॥ कन्या जयति तस्यैषा मयणल्लेति नामतः । समीधेस्या न दध्वंसे कान्तिर्निन्ये जगन्मुदम् ॥ १०१ ॥ ७१६ १०१. नामतो मयणल्लेति मयैणल्लाख्यैषा चित्रपटस्था तस्य जयकेशिनः कन्या पुत्री जयति सर्वत्रैणादुत्कर्षेणास्ति । यतोस्याः कन्याया: कान्तिः कमनीयता समीधे दिदीपे न दध्वंसे न क्षीणा । अत एवास्याः कान्तिर्जगन्मुदं हर्षं निन्ये प्रापयत् ॥ प्रोर्णुविता । प्रोर्णविता । इत्यत्र “ वोर्णोः " [१९] इतीवा ङिद्वत् ॥ स्तुतः। वित्तः। अत्र “शिदवित्" [२०] इति शिद् ङिद्वत् ॥ अविदिति किम् । जयति ॥ समीधे । निन्ये । अत्र “इन्ध्यसम्" [२१] इत्यादिना परोक्षा किद्वत् ॥ इन्ध्यसंयोगादिति किम् । ध्वंसे ॥ यौवनेनाथ सस्वजे सा विकारैर्न सखजे । नष्ट्वा याति स्मराख्यायामास्ते वालिनर्मणि ॥ १०२ ॥ १०२. अथ सा मयणल्ला यौवनेन सस्वज आलिङ्गिता परं १ एलिम ०. १ ए ई ह पु. २ ए प्रोर्णवि. ५ एता । इ. ६ ईशिदिति. अन्धस. ९ ए दध्वसो ॥. Jain Education International ३ ए ययण ४ डी दिहीपे ८ए अत्रेध्यस बी ७ ए शिङद्वित् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy