________________
[है० ४.३.३.] नवमः सर्गः।
७११ वेव्यते दीध्यते लक्ष्म्या भवानग्रेधुनानया । यदि वेवीत दीधीतेत्यालेख्यपटमार्पयत् ॥ ९४ ॥ ९४. चित्रकृदालेख्यपट चित्रपटमार्पयद्राज्ञे ददौ । कथम् । इत्येवर्मुक्तिदानप्रकारेण । इत्युक्त्वेत्यर्थस्तमेवाह । हे नृपाग्रे पूर्व भवांस्त्वं लक्ष्म्या राज्यश्रिया का वेव्यते धीरललितनायकत्वात्काम्यते । तथा दीध्यते । अन्तर्भूतणिगर्थत्वाद् रम्यते च । अधुना सांप्रतं पुनरनयालेख्यपटस्थकन्यकया सहितां लक्ष्मी यदि वेवीत दीधीत च । इच्छा मे यदि कामयेत रमयेच्चेत्यर्थः । असंजातपूर्वसपत्नीका लक्ष्मीरधुनानया ससपत्नीका यदि भवेत्तदा ममात्यभिप्रेतं स्यादिति भावः । अन्न "कामोक्तावकच्चिति" [५. ४. २६ ] इति कामोक्तौ गम्यमानायां सर्वविभक्त्यपादा सप्तमी । यदि च भवानग्र इति पाठस्थाने पूर्वमेष इति पाठः स्यात्तदा सर्वापीयमुक्तिः कवेः स्यात्ततश्च पूर्वमेष कर्णो लक्ष्म्या वेव्यते दीध्यते चाधुना त्वेषोनया सहितो लक्ष्मी यदीति यथार्थे । यथा वेवीत दीधीत च । वर्तमानार्थेपि सप्तमी दृश्यते । ततश्च यथाभिलषति क्रीडयति चेति हेतोरालेख्यपटमार्पयदिति सरल एवान्वयः स्यात् । विशिष्टाम्नायविद्भिरन्यथा वैतदर्थः स्वयं व्याख्येयः ॥
अतनोत् । अधूनोत् । इत्यत्र "उश्नोः" [ २ ] इति गुणः ॥ अविभयुः । हेपयन् । इत्यत्र “पुस्पौ” [३] इति गुणः ॥
१ ए ई त देधी.
१ सी डी मुक्तदा'. २ ए सी भवास्त्व ल'. ३ ए वेव्येते. ४ ए ई त देधी'. ५ बी येच्च र. सी डी येत् र. ६ ए येचेत्य'. ७ बी सी डी वकिच्चि. ए वकिन्विति. ८ बी वादः स. ९ बी सी डी हितां ल'. १० ए दी य. ११ ए ई त देधी . १२ एर्तकमा . १३ बी ई पते की .सी डी षयते क्री. १४ सी डी यवद्भि. १५ बी ई था चैत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org