________________
है० ४.२.७५.] नवमः सर्गः।
६८९ अन्यून एभ्यः पूर्वेभ्यो भीमो जयति संप्रति । यत्र न क्षितकः कोपि क्षीणकः केवलं कलिः ॥४९॥ ४९. संप्रत्येभ्यः पूर्वेभ्य: पूर्वजेभ्यः पुरूरवआदिभ्योन्यूनोहीनो भीमो जयति । यत्र भीमे सति सर्वस्य सुखितत्वान्न कोपि क्षितकः परपराभवादिना दीन: केवलं परं कलि: कलिकालः क्षीणको धर्मोदयाद्दीनः ॥
मैत्री हि सहजा सद्भिः सतामित्यावयोरिमाम् ।
अन्यथा ख्यापयन्कोस्तु क्षितायुः क्षीणसंततिः ॥ ५० ॥ ५०. हि स्फुट सतां साधूनां सद्भिः सह सहजा स्वाभाविकी मैत्रीति हेतोरावयोः सतोरिमां मैत्रीमन्यथामैत्रीप्रकारेण ख्यापर्यंन्कः क्षीणायुः क्षीणतसंततिः क्षीणसन्तानश्चास्तु । अकृत्रिममैत्रीपवित्रयोरावयोरमैत्री मुमूर्षुरेव वक्तीत्यर्थः ।
क्षीणं यद्वा स्वयं तेन किं हि तस्य क्षितेन नः ।
त्वं श्लाघाहीण नः पुण्यैर्ऋतं स्वाम्यनृणागतः ॥ ५१ ॥ ५१. यद्वा तेनावयोमँत्रीमन्यथा ख्यापयता नरेण स्वयं क्षीणं महालीकोक्तिरूपतीव्रपापपातादात्मनैव क्षयं गतम् । ततश्च हि स्फुटं तस्य स्वयं क्षीणस्य क्षितेन क्षयेण नोस्माकं किं न किंचित्तत्मयस्य मृतमारणतुल्यत्वात्तस्मोत्तद्वार्तामपि वयं न कुर्म इत्यर्थः । अथात्मानुगतमेव तात्पर्यमाह । हे श्लाघाह्रीण महापुरुषत्वात्प्रशंसया लजित तथा
१ बी सहजामि . ए सत्यमि'. २ ए बी ई °ण्यै अतं. १ बी सी डी भ्यः पु. २ ए तकोप'. ३ ए दीनो के. ४ ए लि: का. सी लिकालक्षी'. ५ बी हि स्फट. ६ सी डी हजा. ७ ई त्रीहि हे'. ८ ए °यक्षः क्षी. ९ ए बी ई "युः क्षितसं. १० सी मूर्खरे. डी मूर्खरे. ११ ए यं तेन हितस्य, १२ सीडी स्माद्वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org