SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [भीमराजः] विन्ध्योव्याहतमतेरपि ज्ञानकारणेन्द्रियपाटवादप्रतिहतज्ञानस्यापि पुंसो हिमश्रथाद्रित्वं हिमेन अथ्यते व्याप्यते हिमश्रथो हिमवान्योद्रिस्तद्भावं गतः। पहिन्द्रियोप्येवं जानाति यदयं विन्ध्यो न किं तु हिमाद्रिरित्यर्थः । कैर्हेतुभिः । अयतैरनुपरतैस्ततैविस्तीर्णैस्त्वद्यशःप्रश्रंथैर्भवदीयकीर्तिसन्दर्भेः ॥ अक्षतेनौजसा काशिमवमत्य निहत्य च । साध्वनैषीर्दशार्णेशमनारतवति नतिम् ॥३३॥ ३३. दशार्णेशं दर्णिदेशाधिपमनारता निरन्तरा वति: सेवा यस्यां तां नतिं साधु यथा स्यादेवं त्वमनैषीः । किं कृत्वा । अक्षतेन केनाप्यविध्वस्तेनौजसा बलेन कृत्वा काशि वाणारसीराजमवमय रणे तिरस्कृत्य निहत्यै च ॥ परितत्य प्रसत्येभान्प्रवत्यागत्य दूरतः। त्वां प्रणत्याधिगम्याभूत्सुखी भद्रभटो नृपः ॥ ३४॥ ३४. भद्राः सुजात्येभा एव भटा यस्य स भद्रभट एवंनामा नृपो गजबन्धदेशस्य राजी सुख्यकुतोभयत्वात्सुखितोभूत् । किं कृत्वा । दूरंतो दूरदेशादागत्य त्वामधिगम्य प्राप्य त्वां प्रणत्य नत्वा त्वां प्रवत्य सेवित्वेभान्हस्तिनः परितत्य विस्तार्य प्रसत्य दत्त्वा च ॥ १बी तेनोज. २ ए शार्णेश'. १ ए श्रथ्याप्य. २ ए °वानयोद्रि'. ३ ए विध्यो न. ४ ए किं हि'. ५ ए श्रद्धैर्भ. ६ ए शार्णेशं दशाणेशा. ७ ए सेव य. ८ सी त्वमानेपीः. डी त्वमानै. ९ सी ध्वस्तनौ . १० डी स्तनोज°. ११ बी शि बाणा. १२ ए त्य रेणे. १३ ए °त्यवः ।।. १४ ए जा मुखीश्चकु. १५ सी रदे. १६ बी णम्य न. १७ ए°वर से. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy