SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ ६७८ व्याश्रयमहाकाव्ये [भीमराजः] बलं भीमसैन्यं येन । यद्वा भीमचमूलेशेनानिन्दितमविध्वस्तं च बलं यस्य सः । तथा कलचुरि पाञ्चितो नृपैः पूजित: स्वसेवकैर्नृपैरापूरितसभः सन्नित्यर्थः । नेत्राभ्यामुदक्तोर्वीकृता या भ्रूस्तया भ्रूसंज्ञया कृत्वा द्वास्थेन का तं दूतं प्रावेशयञ्च ॥ ध्वस्त । अग्लुचत् । इत्यत्र “नो व्यञ्जनस्य' [ ४५ ] इत्यादिना नस्य लुक् ॥ अनुदित इति किम् । अनिन्दित ॥ नेत्रोदक्त । अत्र "अञ्चोनायाम्" [ ४६] इति नस्य लुक् ॥ अनायामिति किम् । नृ(भू)पाञ्चितः ॥ तेनाविकैपितेनाविलगितैः स्वैर्निषीदता। नाभाजि विनयो नाभञ्ज्यवष्टम्भः सजन्यशः ॥२९॥ २९. तेन दूतेन विनयः प्रणामाधुचितप्रतिपत्ति भाजि न भग्नः । कीदृशी तेन । अविकपितेन संक्षोभोत्थस्तम्भादिविकाररहितेन । तथाविलगितै रोगादिनानुपतप्तैः स्वैरात्मीयभटैः सह निषीदता चेदिसभायामुपविशता । तथा तेन यशः सजन्बध्नन्नव॑ष्टम्भ और्जित्यं नाभन्जि । तावानेव विनयः कृतो यावता स्वावष्टम्भो न भ्रष्ट इत्यर्थः ॥ दर्शन्क्रमुककर्पूरं सोथ रागी रजन्सदः । रजकक्षालितक्षौमचोक्षदैन्तांशुरब्रवीत् ॥ ३० ॥ ३०. अथ स दूतोब्रवीत् । कीडक्सन् । रागी शृङ्गार्यत एव १ सीडी कम्पिते. २ ए °शनकमु. ३ सी डी दन्ताशु. १ ए स्वसैव. २ सी क्तोद्वीकृ. डी तोकि. ३ बी तंप्रवे'. ४ बी सी डी शा सतावि. ५ सी कम्पते. डी कम्पिते. ६ ए गिती रो". ७ ए भव्यैः स. ८ ए व औ'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy