________________
६७२
व्याश्रयमहाकाव्ये भीमराजः] श्वायुतमश्वानां दशसहस्राणि दूतेन सहेह प्रत्यक्षे देश आगतिमागमनमववर्तच्चक्रे । कीदृगित्याह । एषैच्छत्रैमहासामन्तादिमूर्धापरिस्थि तैरातपत्रैः कृत्वा व्योमाबिभ्रजदशोभयत् । तथैष कुन्तकान्तिभिः कृत्वा व्योमाबीभसदुददीपयत्। तथैष किरीटोमहासामन्तशिरःस्थमुकुटांशुभिः कृत्वा व्योमाबभासत् । तथैष हेपारवैः कृत्वा व्योमाबीभषत्प्रतिशब्दितैरशब्दाययत् । तथैष खुराप्रैः कृत्वा क्ष्मामबभाषच्छब्दायमानां प्रायुतादिदीपत्समतापयदपीपिडत्पीडितवांश्च । तथैष भारेण का क्रोडदंष्ट्रामपि न केवलं क्ष्मामादिवराहदाढामप्यपिपीडददीदिपञ्च । तथा यद्यस्माद्धेतोरेष रजो धूलिमुदमीमिलदुच्छालितवांस्तेन हेतुना तमोजिजीवदुल्लासितवानित्यर्थः । तथैष तान्यस्त्राण्युदमिमीलदप्रकटयद्यैः कृत्वैष उदयोतमजीजिवत् । तथैष तान्दुन्दुभीन्पटहानचकाणदवादयद्यैः कृत्वैष निकुञ्जानि गिरिगह्वराण्यचीकणत्प्रतिशब्दैः शब्दायितवान् । तथैष ता ढका विजयभम्मा अरराणचावादयश्च यकाभिः कृत्वा द्यामरीरणत् । तथैष काहला अववाणचावादयत् । एतत्स्वरस्यात्युदात्तत्वादुत्प्रेक्ष्यते । एष निजोत्कर्ष न्वात्मीयोत्कृष्टतामिवाबीभणदभाणयत्प्रस्तावात्काहला एव । “गतिबोध०" [२.२.५] इत्यादिना णिकर्तुः कर्मता । कालापाादित्यर्थः । तथैष उच्चैः शङ्खानवीवणञ्च । एतत्स्वरस्य च मङ्गल्यत्वादुत्प्रेक्ष्यते । मङ्गलं न्वबौणन्द्राणितवान् । प्रस्तावाच्छवानेव । तथैष कापि शत्रुषु क्षोभं भयेनाकुलतामशश्राणददात् । तथैष कापि नागरिकेषु ऋद्धिविशेषेण विस्मयमाश्च
१सी डी हश्राणि. २ ए पस्थ त्रैम'. ३ ए °दिमहामू. ४ बी सी डी "रिधृत . ५ ए स्थितेरा . ६ ए बीसस'. ७ बी शिरस्थ. ८ ए पारावः कृ. ९ ए मानब १० बी ई युक्तादि . ११ ए °लं म्यानादि. १२ ए बी डी उद्योत. १३ ए जिषस्तथै . १४ ई ढक्कावि. १५ ए विषय. १६ ए °णच्च वा. १७ बी सी डी कृत्वैष द्या. १८ ए णत्वावा. १९ ईणिकर्तुः. २० ए पार्श्वदि २१ बी थैव उ २२ डी लं त्वब. २३ ए णप्राणि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org