________________
व्याश्रयमहाकाव्ये
[ भीमराजः ]
3
७
क्ष्णमुपरमय्योपरमय्य यमयितुरुपरमयितुस्तिरस्कुर्वतः सत इत्यर्थः । मै बलिष्टतायं संप्रति शत्रून्पराभवन्मा भीममपि पराभूदिति सख्याय किमेष भीम उदयमि मत्रिभिरुद्यमं कारितः । किं वा मैत्र्यै संप्रत्ययं शत्रूञ्जयन्मा भीमस्य दुःसाध्यो भूदित्याशयेन विग्रहायोदयामि । तथा विधिर्देवमर्क न यामयति न परिवेवेष्टि परचक्रकृतराष्ट्रभङ्गादि सूचकं दुर्दैवकृतमर्कपरिवेषाद्यरिष्टं न किं चिदस्तीत्यर्थः । चः परंमर्थे । परं भीम इतोस्मिन्देश एति । कीदृक्सन् । अरी 1 ज्ञापंज्ञापं ज्ञपंज्ञपमभीक्ष्णं हिंसित्वा हिंसित्वा ज्ञपयन्हिसन्नत एव मामप्रज्ञपयन्नपरितोषयन् । तथा यत्पूर्वैर्थस्य भीमस्य पूर्वजैर्मूलराजाद्यैरस्त्रं ज्ञपयित्वा तीक्ष्णीकृत्याज्ञाप्यमारि शत्रुहिंसा चक्रे । भावेत्र जिच् । 'तुः परमर्थे । परं चहयित्वा शाठ्यं कृत्वा यत्पूर्वैर्नाज्ञपि न हिंसितं सोयं भीमोतर्कितमभिषेणकत्वात्किं चाहचाहं चहचहमभीक्ष्णं छलयित्वा छलयित्वा जयेच्छत्रुं वशीकुर्यात् । "विधिनिमन्त्रण” [५-४-२८] इत्यादिना संप्रश्ने सप्तमी । तथैनं भीमं ज्वालंज्वालं ज्वलंज्वलं प्रत्यवस्कन्दनौदिनाभीक्ष्णं कोपयित्वा कोपयित्वा न ज्वलयामि न कोपयामि । किं कृत्वाज्ञात्वा । किमित्याह । अमुना भीमेन न चाहिता न शाठ्यं करिष्यते चहिता वा । वा शब्दोत्रापि योज्यः । शाठ्यं करिष्यते वा । तथामुन नाज्वालि कोपेनात्मा न ज्वालित ज्वलि वेति । तथा परं शत्रुं ज्वालयप्रतापैः संतापयन्प्रज्वलयन्प्रकर्षेण संतापयंश्च भीमो दूतं झलयेत्प्रेषयेत् । कीदृक्सन् । विग्रहं व हलयंश्चालयन्प्रवर्तयन्नि
93
१५
६६८
•
५ ए
१ए तो स २ सी डी 'भूयादि ३ डी मैत्र्ये सं. ४ ए 'स्य दुसा मकै न. ६ ए सी डी रमार्थे', ७ए १ चहयित्वा शाठ्यं कृत्वा यत्पूर्वेर्नाज्ञपि न हिंसितं सोयं भीमोतर्कितन्हि ", ८ पूर्वैर्मू ९ ई वे जि. १० सी तुप. ११ ए पूर्वेर्ना १२ सी नाभी'. १३ सीडी 'ते चाहि". १४ सी डावा. १५ बी 'तो ज्वालिचेति. १६ ए repeats from यन् to लयन्. १७ ए ई प्रज्वाल. १८ ए पयश्च भीमौ दू. १९ डी 'ये की.
२० ए वा हुल,
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org