________________
द्याश्रयमहाकाव्ये नवमः सर्गः।
'परिस्खादंपरिस्खादं परिस्खदंपरिस्खदम् ।
स परिस्खदयन्दृप्तान्भीमोथ प्रतिवेद्यगात् ॥१॥ १. अथ हम्मुकवशीकरणानन्तरं स प्रसिद्धो भीमः प्रतिचेदि चेदिदेशाभिमुखमगात् । कीहक्सन् । दृप्तान्दर्पिष्ठान्नृपान्परिस्खादंपरिस्खादं स्खदि हिंसास्थैर्ययोः । रैणे स्थिरैर्भाव्यमिति स्थिरीकृत्य स्थिरीकृत्य परिस्खदंपरिस्खेदं स्वसैन्यैर्घातयित्वा घातयित्वा परिस्खदयन् स्थिरीकुर्वन्धातयंश्च ॥
अपस्खादमपस्खादमपस्खदमपस्खदम् । यैरपास्खादि तै पास्खद्यस्य वहतो बैले ॥२॥
२. तैश्चरटेश्वरैरस्य भीमस्य वहतो गच्छतो बले नापोस्खदि मृत्यु. भयान्न किमपि विनाशितम् । यैरपस्खादमपस्खादमपस्खदमपस्खदमभीक्ष्णं स्वभटैर्घातयित्वा घातयित्वापास्खादि घातः कारितो यैर्नृपादयोपि गच्छन्तः प्रच्छन्नधाटीपातादिनोपद्रुता इत्यर्थः ॥
१ बी सी बी अहम् । प. २ ए °रिरकादं. ३ ई बलेः ॥.
१ सी दिदे'. २ ए °सास्तैर्य'. ३ ए रणे स्थि. ४ सी स्खद. ५ वी पास्खादि. ६ बी सी डी क्ष्णं सुभ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org