SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ [ भीमराजः ] क्रापयद्विषदसून्विशिखैरध्यापयच्च रुदितान्यरिनारीः । जापयत्स्वमभिसाधयदर्थं व्याप सेधयदरीशमनीकम् ॥ ११३ ॥ ६५६ व्याश्रयमहाकाव्ये ११३. अनीकं भीमसैन्यं व्याप सर्वत्र प्रससार । कीदृक्सत् । विशिखैः कर्तृभिर्द्विषदसून कापयद्वाहयदत एवारिनारी रुदितान्यध्यापयच्च रोदयदित्यर्थः । तथा स्वमात्मानं ज्ञातिमात्मीयं वा जापयद्विजयमानं प्रयुञ्जानम् । तथार्थ स्वकीयं देशस्वी कारादिकमभिसाधयन्निष्पादयत् । तथारीशं सिन्धुराजं सेधयदहं तवोपर्यागच्छामीति ज्ञापयत् ॥ कापयत् । जापयत् । अध्यापयत् । इत्यत्र "णौ कीजीङ: " [ १० ] इत्यात् । अर्थमभसाधयत् । इत्यन" सिध्यतेरज्ञाने " [ ११ ] इत्यात् । अज्ञान इति किम् | अरीशं सेधयत् ॥ स्फारयद्धनुरचापयदुच्चैः स्फोरयद्धनिमचाययदेतत् । गाः प्रवापयति यश्च बलाका यः प्रवाययति वा स इवर्तुः ॥ ११४ ॥ 3 ११४. एतद्भीमानीकं कर्तृ धनुश्चापं स्फारयदाकर्षत्सद्धनुरेवोच्चै - रचापयद्व्यस्तारयत्तथोच्चैरुदात्तं ध्वनिं सिंहनादं स्फोरयच्छालयत्सनिमचाययव्यस्तारयत् । उपमामाह । य ऋतुर्गा धेनूः प्रवापयति गर्भ ग्राहयति य ऋतुर्बलाकाश्च पक्षिणीभेदांश्च प्रवाययति स ऋतुरिव वर्षाकाल इवेत्यर्थ: । वर्षासु हि पुरोवाते वाति गावो बलाकाच गर्भ गृह्णन्ति । यथा वर्षर्तुर्धनुरिन्द्रचापं ध्वनिं गर्जितं च विस्तारयति तथेत्यर्थः ॥ १ः । स्वमात्म. २ सी कार्यदे. ३ सी दं स्फार. ४ ई दुत्साल ५ एवा तो वा ६ बी धनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy