SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ६५४ ध्याश्रयमहाकाव्ये [ भीमराजः] मनिच्छन्नपि दत्ता दिदीषा क्षेतुमिच्छा यस्य स तथा। किं कृत्वा मापगारमिव क्ष्मां मृदमपगूर्येवोद्यम्येव गिर्यपगोरं गिरीनुद्यम्य । उभयत्र "द्वितीयया" [५.४.७८] इति णम् । यथा केनापि मृत्खण्डमुत्पाट्यत एवं वहे प्रक्षेपार्थं गिरीनुत्पाट्येत्यर्थः । अत एव दीनं भयेन कातरं मीनकुलं मत्स्यौघो यत्र स तथा वायुपदायो जलक्षयो यत्रं सः ॥ तैरदीयत वहः परिबद्धोद्राक्प्रमाय च निमाय च वृक्षान् । तं प्रमातुमरिमाशु निमातुं दिक्षु कीर्तिमचलच्च चुलुक्यः ॥११०॥ ११०. वहोदीयताक्षीयत । कीहक्सन् । वृक्षान्प्रमाय च हिंसित्वा छित्त्वेत्यर्थः । निमाय च वहे क्षिप्त्वा च द्राक् तैर्बलैः परिबद्धः । तथा चुलुक्यो भीमोचलच्च । किं कर्तुं तमरि सिन्धुराज प्रमातुं हिंसितुं दिक्षु कीर्ति निमातुं च निक्षेप्तुं विस्तारयितुम् ॥ सैन्धवस्य निमयः प्रमयो वास्त्वद्य दुर्निमयदुष्प्रमयस्य । इत्यनामयमयावचमूपा मेतुकाममभिमातुमिहोचुः ॥ १११ ॥ १११. आमीनातीत्यामयो रोगो मिन्वन्तीति अचि मया उष्ट्रा अनामयं नीरोगं मयाँश्वं मया अश्वाश्च येषां ते ये चमूपा नृपास्त इह भीमसमीप ऊचुः । किं कर्तुम् । मेतुकामं जिघांसुं सिन्धुराज. मभिमातुं हिंसितुम् । किमूचुरित्याह । दुर्निमयदुष्प्रमयस्य दुःखेन क्षेप्यस्य हिंस्यस्य च सैन्धवस्य सिन्धुराभिजनो निवासोस्य "सिन्ध्वादेर" [६.३.२१६ ] इत्यञ् । तस्य सिन्धुराजस्याद्य निमायो निरासः प्रमैयो वा हिंसा वास्त्विति । सिन्धुराजोद्यास्माभिनिरस्यो हिंस्यो वेति प्रतिज्ञा चक्रुरित्यर्थः ।। १ ए मनच्छ. २ डी म्येच गि. ३ ए तिणम । य. ४ ए सी डी ई युपादायोपल'. ५ सी डी त्र सः ॥. ६ सी तु मतरि. ७ ए प्रमांतुं. ८ डी॥ अमी. ९ बी नामीत्या. १० ए या अ°. ११ ए 'भिहातुं. १२ ई यदुःप्रम १३ ई प्रमेयो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy