SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ६४४ व्याश्रयमहाकाव्ये [ भीमराजः ] प्रसंस्तीत । प्रसंस्तीवत् । इत्यत्र “प्रसमेः स्त्यः स्तीः " [ ९५] इति स्तीः ॥ शीतशीनमकरन्दलवः प्रस्ती मशीनवदुदम्बुतुषारः । श्यानतां नृषु दिशन्पवनः प्रस्तीतघर्मसलिलानि जहीर ॥ ९६ ॥ 3 ९६. पवनः प्रस्तीतधर्मसलिलानि श्रमोद्भवान्संहत स्वेद बिन्दूञ्जहार कीदृक् । शीतेन शीतलगुणेन शीता द्रवीभूय कठिनतां गता यद्वा शीताः शीतला अत एव शीना मकरन्दलवा: पुष्परसलेशा यत्र सः । तथा प्रस्तीमाः संहताः शीनवन्तो द्रवीभूताः सन्तः कठिनतां गता उदुत्कटा ॲम्बुतुषारा वहजलसंबन्धि हिमकणा यत्र सः । तथा मृदुत्वान्नृषु श्यानतां गतिमत्तां दिशन्ददत् ॥ प्रस्तीम प्रस्तीत । इत्यत्र " प्रात्तश्च मो वा " [ ९६ ] इति वा मः ॥ ६७ शीन शीर्नवत् । स्पर्शे शीत । इत्यत्र “श्यः शी" [ ९७ ] इत्यादिनां शीः ॥ द्रवमूर्तिस्पर्श इति किम् । श्यानताम् ॥ प्रातिशीन्यमभिशीनमभिश्यानेन जाड्यमवशीनमथापि । सेतुबन्धनपरत्वमवश्यानेभ्य ओज इह नाभ्यवशीनम् ॥ ९७ ॥ ९७. इह वहे सेतुबन्धनपरत्वं सेतुबन्धतात्पर्यमवश्यानेभ्यः प्रातेभ्यो भटेभ्यः सकाशादभिश्याने नेतस्ततो भ्रमणेन प्रातिशीन्यं रोगित्वमभिशीनमपगतम् । अथानन्तरं जाड्यमपि रोगादिकृतालस्यम 93 १ ए हारः ॥ प. २ ए ओह इ. १ बी 'मस्त्यस्ती • २ सी 'ति स्ती ॥. ५ ई 'बन्धहि ६ ए शीना शी. ९ सी नाशी ॥ १३ सी डी 'शीतम. १० बी 'हे शेतु . Jain Education International १ • ७ ३ ए शीता द्र° ४ ए अम्बतु . ई नव ११ बी 'त्वं शेतु. ८ सी नवात्. १२ए 'नेनैत'. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy