________________
६४२
व्याश्रयमहाकाव्ये [भीमराजः] ९२. तत्र तेषु चमूपेषु मध्ये केपि चमूंपाः सपदि दृषयः । "गम्यस्याप्ये" [ २.२.६२. ] इति चतुर्थी । शिला आहर्तुं शिश्वियुजग्मुः । केपि च तरुभ्यो वृक्षानाहर्तुं शुशुवुः । किंभूताः सन्तः । यथा हनुमाञ् शोशवीति स्म रामेणाब्धिसेतुबन्धे दृषदाद्याहरणायेतस्ततो भ्रमणात्कुटिलं गतस्तथा त्वं किं न शेश्वयीषीत्यन्योन्योत्साहनाय वदन्तः ॥
शुशुवुः शिश्वियुः । शोशवीति शेश्वयीपि । इत्यत्र “वा परोक्षायङि" [९० ] इति वा वृत् ॥ पिप्यिरे प्रतिरवा गगनान्तः पेप्यिताचलदरीषु च पीनाः । पीनवत्परशुपाणिनिकृत्तोप्यानपादपपरापतनोत्थाः॥ ९३ ॥ __९३. प्रतिरवाः प्रतिशब्दा गगनान्तः पिप्यिरे वृद्धिं गतास्तथा पेप्यिता अतिवृद्धा या अचलदोद्रिगुहास्तासु च पीना बहूभूताः । किंभूताः। पीनवन्तः स्थूला: परशवः पाणावेषां तैनिकृत्तानां छिन्नानामुत्प्यानानामतिस्थूलानां पादपानां यत्परापतनं परावृत्त्या निपतनं तस्मादुत्तिष्ठन्ति ये ते तथा ॥
पिप्यिरे । अत्र "प्यायः पीः" [ ९१] इति पीः ॥ दीर्घनिर्देशो यङ्लुबर्थः । पेप्यित॥
पीनाः । पीनवत् । इत्यत्र "क्तयोर्'' [१२] इत्यादिना पीः ॥ अनुपसर्गस्येति किम् । उत्प्यान ॥
१ सी कृत्योत्पान.
१बी मूपा स. २ डी शेश्वियी. ३ डी शेश्वियी. ४ ई न्तः पेप्यि. ५ डी ई बहुभू. ६ बी प्यितः ॥. ७ सी पीना । डी पीन ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org