________________
[ है० १.३.३२.] प्रथमः सर्गः । कृतार्यों विहितपूजोपचारः कलो मधुरवा च सन् कविः काव्यकर्ता दैवतमहदादिकां स्वाभीष्टदेवतां प्राहै। कथमित्याह। हे गो३त्रातः संसारसागरोत्तारकत्वेन भूस्थलोकस्य रक्षणशीलात एव हे भुवः प्रभो पृथिव्याः स्वामिस्तथा हे घो३त्र स्वर्गस्थलोकरक्षक दैवत नमतः प्रणम्रानस्मदादीन् पाहि पाहि रक्ष रक्षार्थात्संसारदुःखेभ्य इति । कविरित्यत्र जातावेकवचनम् । वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन् निन्दन यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषायेत्यलंकारविदां समयात्पाहि पाहीति न पुनरुक्तदोषः ॥ गो३त्रातः । घो३त्र । इत्यत्र "दूरादामध्यस्य" [७.४.९९] इत्यादिना प्लुतः ॥
पात्रे यथाविधि प्रत्तधनश्चन्द्रसमो गुणैः ।
धैर्ययुग्ग् वीर्ययुग् राजत्यत्र सर्वोपि सत्यवाक् ॥ ८५॥ ८५. अत्र पुरे सर्वोपि लोको राजति । यतः कीदृक् । पात्रे ज्ञानदर्शनचारित्राधारे तीर्थकृदादौ यथाविध्यागमोक्तकल्पानुसारेण प्रत्तं प्रदातुमारब्धं धनं वित्तं येन सः। एतेनौदार्यविवेकावुक्तौ । धैर्ययुग्ग् वीर्ययुग् । आपत्स्वप्यचलचित्तता धैर्य वीर्यं पराक्रमस्ताभ्यां युक्तः । सत्यवागवितथवचनः । अत एव गुणैरौदार्यादिभिः कृत्वा चन्द्रसम इन्दुवन्निर्मलः॥
विरामे । धैर्ययुग्ग वीर्ययुग् । अभजत्त् असृजत् ॥ एकव्यञ्जने । मित्रार्थ पित्रर्थ । त्वङ्कः । असरय्यतः सय्यतत्वम् । इतऋविः कविङ्कलः । नमतपाहि गोइत्रातपाहि । कलःः कान्तः कान्तः कृतार्चः। गोइत्रातः घो३त्र। इत्यत्र “अदीर्घात्" [३२] इत्यादिना वा द्वित्वम् ॥ अन्वित्यधिकारात् कत्वगत्वादिषु कृतेषु पश्चावित्वम् । अदीर्घादिति किम् । वाक् । पात्रे ॥ विरामैकव्यञ्जन
.. १ सी डी क स. २ सी डी एफ °दिकं स्वा. ३ एफ ह । हे. ४ सी डी क देव. ५ सी डी "ब्धं वि. ६ एफ अने कि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org