________________
६४०
ध्याश्रयमहाकाव्ये
[ भीमराजः]
अनुशितम् । उशन्ति । इत्यत्र “वशेरयङि” [ ८३ ] इति वृत् ॥ अयङीति किम् । वावश्यते ॥
गृहीत । संजिघृक्षुम् । वृक्णम् । परिवृश्चति । भृष्टम् । भृजति । पृष्टम् । परिपृच्छति । इत्यत्र "ग्रह" [ ८४ ] इत्यादिना य्वृत् ॥ व्यचिवशिवस्चिनस्जिप्रच्छीनां पञ्चानां यङ्लुबन्तानां नेच्छन्त्यन्ये । आवाव्यक्ति ॥ अन्ये तु यङ्लुप्यपि मन्यन्ते । अवेविक्ति ॥ अपरे तु विचतिवृश्चतिभृजतिपृच्छत्तीनां नित्यं य्वृत् । ज्यादीनां त्वनित्यमिति मन्यन्ते । तेन विव्यधुः ॥ अन्ये तु विविधुरित्येवाहुः ॥
वैवीयते । वेवयीति । सेसिम्यते । सेसिमीषि । इत्यत्र “व्यस्यमो यडि" [ ८५ ] इति वृत् ॥ यङ्लुपि नेच्छन्त्येके । वाव्यत् । संस्यमत् ॥ आजुहावयिषति स्म च स क्ष्माचेक्यितोथ चतुरः प्रतिहारः । आजुहाव निरजूहवदार्जिह्वायकीयिषत आशु चमूपान् ॥ ९ ॥
९०. क्ष्माचेक्यितः मया पृथ्वीस्थलोकेनात्यर्थं पूजितः स भीमश्वमूपान्नृपानाजुहावयिषति स्म चाकारयितुमियेष च । यत आजिहायकीयिषत आह्वायकेच्छामिच्छतः । प्रागेवाह्वानमिच्छत इत्यर्थः । अथ चमूपाकारणेच्छानन्तरं चतुरो नृपाभिप्रायज्ञ: प्रतिहार आशु शीघ्रं चमूपानाजुहाव स्वयमाकारितवान् । निरजूहवदन्यैराहायितवान्।। चेक्यितः । अत्र "चायः कीः" [ ८६] इति कीः ।।
१ ए बी डी हायिकी.
१ सी क्षु । वृ. २ ए भृद्यति. ३ डी ब्रश्चिभ्र. ४ सी तु जङ्लु. ५ ए पचेवि'. ६ सी वेव. ७ ए 'त्र वेस्य. डी त्र वेस्यमोर्यङि. ८ ई मोर्यङि. ९ बी चेक्यतः. १० ई पाना . ११ बी हायिकी'. १२ सीन् ॥चे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org