SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ६०२ व्याश्रयमहाकाव्ये [भीमराजः] जात्वजीयिषिषति स न कश्चिद्यच्छ्रियः क्षितिभुजीह यथेष्टम् । . द्राक्स्वराद्यपरनामजधात्वेकस्वरावयववद्विरभूवन् ॥ ३० ॥ ३०. यद्यस्माद्धेतोरिह क्षितिभुजि राज्ञि सति श्रियो लक्ष्म्यो या या श्रीरिष्टा यथेष्टं यथेप्सितं द्विरभूवन् द्विगुणीबभूवुराल्लोकस्य । किंवत्स्वरादेरपरेन्ये व्यञ्जनादयो ये नामजधातवो नामधातवस्तेषां य एकस्वरा अवयवास्ते यथा । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । पुत्रीयिषिषति । इत्यादौ यथेष्टं प्रथमाद्यवयवानामन्यतमा द्विर्भवन्ति द्विरुच्यन्ते तस्माद्वहुधनत्वाद्धेतोर्जातु कदाचिदपि न कश्चित्कोप्यजीयिषिषति स्म । यदि ममाजा स्यात्तदा शोभनमिति छागेच्छां नेच्छेति स्म । एतेन प्रजोपरि राज्ञः शुभचेतस्कत्वोक्तिः । शुभचित्ते हि राज्ञि प्रजाः श्रिया वर्धन्ते ।। भूषार्थ । अलमकृत सः। नालंकरिष्यतेन्यः। सम[म]लंकुरुते । अबूभुषताद्यः । भूषयिष्यते द्यौः । भूषयते भूः ॥ सन्नन्त । अचिकीर्षिष्ट । चिकीर्षियन्ते । चिकीर्षते ॥ किरादि । व्यकीष्ट । चिकीपीष्टं । किरते । अगीष्ट । परिगीर्षीष्ट । गिरते ॥ ण्यन्त । अकारयते ॥ स्नु । प्रस्तुते गौः ॥ श्रि । नोच्छ्रयते ॥ आत्मनेपदाकर्मक । विकुरुते । एषु “भूषार्थ'' [ ९३ ] इत्यादिनी जिक्यौ न ॥ पर्यवारयत चमूस्ताम् । इत्यत्र 'करण' [ ९४ ] इत्यादिनात्मनेपदं क्वचिस्यात् ॥ क्वचिन्न । साध्वसिश्छिनत्ति ॥ द्वितीयः ( द्वादशः ) पादः समर्थितः ॥ १ डी ई तवस्ते'. २ ई राव, ३ बी यिषष. ४ सीडी °च्छन्ति स्म. ५ सी प्रजा श्रि. ६ वी अबुभु. ७ सी पयंते. ८ सी ध्यते । चि° ९ ए °ष्टगि. १० ए °त ॥ स । प्रचुते. ११ सीना निक्यौ. १२ ई दः लक्षणतः स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy