________________
६००
ब्याश्रयमहाकाव्ये
[भीमराजः]
प्रस्तुते स किल गौः स्वयमस्मिन्पर्यवारयत चास्य चमूस्ताम् । मच्छिनत्ति युधि साध्वसिरस्येयाज चारिरुधिरेण कृतान्तम्
॥२६॥ २६. किलेति सत्ये । अस्मिन्नृपे सति गौः पृथ्वी प्रेस्नुते स्म । प्रेस्नौति स्माक्षारयद्गां रत्नान्ययमेवं न । किं तु स्वयमेव प्रस्नुते स्म । सुप्रभोरस्यानुरागेण स्वयमेव रत्नादिदानोन्मुखी बभूव । तथास्य भीमस्य चमूश्च तां गां पर्यवारयत । पर्यवारयत्तां चम्वा कृत्वायमेवं न । किं तु चमूः स्वयं तां पर्यवारयत रक्षार्थमेतञ्चमू: पृथ्वी परिवेष्टितवतीत्यर्थः । एतेन पृथ्वीभीमयोमिथ उपकार उक्त: । परिवृत्तिरलंकारः । तथास्यासिः खड्गो युधि साधु क्षत्रियोचितं यथा स्यादेवं छिनत्ति स्म । असिना साधुच्छिनत्त्ययमरीनेवं न। किं तु साध्वसिश्छिनत्ति स्म स्वयमेव । अत एव चास्यासिररिरुधिरेण कृत्वा कृतान्तमियाजापूजयत् ॥ कोपि नाचकमतापनिनायाप्याचकाणदिह राज्ञि परस्त्रीम् । नीतिवम॑नि यदेष जजागारातितिक्षत च न कचिदागः ॥२७॥
२७. इहास्मिन् राज्ञि सति कोपि परस्त्रीं नाचकमत नेयेष तथा नापनिनाय नापजढे नाचकाणदपि । अपिः समुच्चये । कामवशादातस्वरपूर्वं नाशब्दाययंत् । एतेन परस्त्रीविषया मनःकायवचसां निवृत्तिरुक्ता । यद्यस्माद्धेतोरेष भीमो नीतिवद्मनि न्यायमार्गे जजागारोद्यतोभूत् । तथा कचिन्मित्रादावप्यागोपराधं नातितिक्षत नासहत । १ए प्रश्नुते.
१ डी पृथ्वीः पृस्नु. २ बी प्रस्नुते. ३ बी प्रश्नौति. ४ वी वृत्तिर. ५ ए °स्यासिख'. ६ ए तं तथा. ७ बी ई °धु स्मच्छि. ८ ए सी अपि स. ९ डी. ब्दायत्. १० सी डी यत । ए. ११ बी. °हत् ॥..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org