SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ [ है० १.३.२३. ] प्रथमः सर्गः / ५१ इति किपि वृक्षवृक्षं करोति णिच्यन्त्यस्वरादिलोपे वृक्षवयति किपि वृक्षे वृक्षाणां छेदको न च नैवास्ति । एवं लता न च । लताच्छेदकोपि नै - वास्ति । वृक्षलता जन्मजराजीवन मरैणारोहणाहारादिसचेतनधर्मवत्त्वेन सचेतना इति ताः प्राणातिपातनिवृत्तत्वेन न च्छिनत्तीत्यर्थः । यतोध्यारूढ उमीशमध्युः । स चासाविन्दुश्चाविन्दुः । स इवे निष्कलङ्का निर्दोषा ये गुणा दयादयः । ईश्वरभालस्थस्य हि कलामात्रस्येन्दोः प्रतिपदिन्दो - रिर्व निष्कलङ्कत्वात्तैरन्वितः । नन्वत्र पुरे को गुणो येनैवंविधगुणोपेतो मुनिजनोत्र तिष्ठति तत्राह । यतः सदा सर्वदा साध्युदये साधूनां मुनीनामीस्तपः संयमादिलक्ष्मीस्तस्या उदयो वृद्धिर्यत्र तस्मिन्निर्जीवक्षेत्रताविशुद्धाहार प्रात्यादिसंयमगुणोपेततया मुनिजनप्रायोग्य इत्यर्थः ॥ वृक्षलता । लता न च । अव्यलोक । इत्यत्र “व्योः” [२३] इति व (य ? ) योर्लुक् ॥ पदान्त इत्येव । भव्यजिय्य । कश्चित्तु स्वरजयोरनादिस्थयोर्यकारवकारयोर्घोष - वत्यवर्णादन्यतोपि लोपमिच्छति । अधिवन्दु । साध्युदये ॥ बन्ध एते दृशा अस्याः कमले क इव भ्रमः । क इत्थं नेह कामिन्याः स्तुत्या अन्योन्यमुद्यताः ॥ ७४ ॥ ७४. कामिन्याः स्तुत्यै लोचनाद्यवयवसौन्दर्यवर्णनायेह पुरेन्योन्यं केनोद्यताः । कथमित्याह । हे बन्धो बान्धवास्या: प्रत्यक्षाया: कामिन्या एते प्रत्यक्ष दृशौ ने कमले । अत्रार्थे क इव भ्रमः को नाम संशयः । इस भावनायाम् । एते दृशौ पद्म एव । अत्रार्थे न काप्यसंभावना कार्येत्यर्थ इत्थम् ॥ १ एफू 'ति तीति कि. २ एव्वृ [ व् बहिः ]. ४ बी सी डी रण. ५ एफ् व निः • ६ एफ व निः क ८ बी 'जय्या ।. Jain Education International For Private & Personal Use Only ३ सी 'रित वृ. 'नयो. ७ एफ् www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy