SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५६४ व्याश्रयमहाकाव्ये [दुर्लभराजः] इन्द्रति । गल्भते। अक्लीबमाने । होडते । अत्र “कर्तुः क्विप्" [२५] इत्यादिना विप् । गल्भक्लीबहोडेभ्यः पुनः स एव ङित् ॥ शचीयसे । अत्र "क्यङ्" [२६] इति क्यङ् ॥ यस्य वाचः पयायन्ते लावण्यं च पयस्यते । चैद्येप्सरायमाणा त्वं रन्तुमोजायसेत्र किम् ॥ १० ॥ १००. अत्र चैद्ये चेदिदेशाधिपेप्सरायमाणा त्वं किं रन्तुमोजायस ओजस्विनीवाचरस्युद्यच्छसीत्यर्थः । यस्य वाचो माधुर्यात्पयायन्ते दु. ग्धवदाचरन्ति । लावण्यं च सौन्दर्यं च पयस्यते ॥ ओजस्यन्ते भृशायन्ते संश्चायन्ते चतुर्दिशम् । कीर्तयो यस्य तत्रास्मिन्कुरौ किं सुमनायसे॥१०१॥ १०१. तत्रास्मिन्कुरौ कुरुदेशेशे किं सुमनायसेसुमनाः सुमना भवस्यनुरज्यसीत्यर्थः । यस्य कीर्तय ओजस्यन्त ओजस्विन्य इवाचरन्त्यतिप्राचुर्येण प्रबलीभवन्तीत्यर्थः । तथा चतुर्दिशं व्यञ्जनान्तादपि केचिदापमिच्छन्ति तन्मते दिक्शब्दादपि । चतस्रो दिशा यत्र तद्यथा स्यादेवं भृशायन्तेभृशा भृशा भवन्ति । चतुर्दिक्षु मङ्गु प्रसरन्तीत्यर्थः। तथा संश्चायन्ते संश्चत्कुहको विस्मापक इत्यर्थः । असंश्चतः संश्चतो भवन्ति प्रतिदिनं नवनवावदातेभ्य उद्भवेन सदा नवत्वाचतसृष्वपि दिवाश्चर्यकारिण्यः स्युरित्यर्थः ।। पयायन्ते पयस्यते । अत्र “सो वा लुक्क" [२७] इति क्यङन्त्यसस्य च लुग्वा ॥ ओजायसे । अप्सरायमाणा । इत्यत्र "ओजोप्सरसः" [२८] इति क्यङ् स. लोपश्च ॥ अन्ये वोजःशब्दे सलोपविकल्पमिच्छन्ति । ओजायसे ओजस्यन्ते ॥ The ms. eit omits the part of the commentary from धि in देशाधिपे to the verse biginning with ओजस्यन्ते. २ बी सी रन्तिऽति. ३ सीन्ति दि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy