SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ढ्याश्रयमहाकाव्ये [दुर्लभराजः ] मण्डपे सूर्यमुदगमयन्प्राप्त्योद्गच्छन्तं सूर्य प्रायुञ्जत । ये स्वयंवरे शीघ्रमागता इत्यर्थः ॥ न युयुत्सितुमिच्छन्ति द्विषो यं जीवकाम्यया। जीवीयज्जीवदोङ्गोयमिदंकाम्यसि सुभ्र किम् ॥ ९७ ॥ ९७. जीवीयजीवदो जीवितव्येषिणां जीवितव्यदातायमङ्गोङ्गदेशाधिपोस्ति । यं जीवकाम्यया जीवितव्यवाञ्छया द्विषो युयुत्सितुं प्रजिहीर्षितुमपि नेच्छन्ति । तस्माद्धे सुभ्र किमिदंकाम्यसीममङ्गमिच्छसि ॥ स्वःकाम्या न स्वरिच्छन्ति न किमिच्छन्ति चर्षयः । पुत्रीयन्तो यमस्मिन्कि कोशिराजे पतीयसि ॥ ९८ ॥ ९८. अस्मिन्काशिराजे काशिदेशाधिपे किं पतीयसि पत्याविवाचरसि । यं पुत्रीयन्तो धार्मिकत्वेन पुत्रवत्पालकत्वाद्विनयाद्युपचारकत्त्वाच्च पुत्रमिवाचरन्त ऋषयः स्वःकाम्या अपि । अपिरत्राध्याहार्यः । महाकष्टानुष्ठानासेवनेन स्वर्गेषिणोपि न स्वरिच्छन्ति परिपूर्यमाणसकलसमीहितार्थत्वेन सदा सुखितत्वान्न स्वर्गमिच्छन्ति । न किमिच्छन्ति च किमप्यपवर्गादिकमपि नेच्छन्ति ॥ नियोजयन्त्याः संयोजन्ती । असाहयन् असहन् । इत्यत्र "युजादेन वा" [१८] इति वा णिच् ॥ भावयमानाम् बभूविरे । अत्र "भूङः प्राप्तौ णि" [१९] इति वा णिङ् ॥ भूङ इति ङकारनिर्देशो णिङभावेप्यात्मनेपदार्थः । प्राप्तेरन्यत्र बभूव । प्राप्तावपि परस्मैपदमित्यन्ये । श्रियं भवन्ती ॥ १ सी डी 'न्तो जम. २ बी कासिरा. १ डी खेतोः सु. २ सी डीन्ति च. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy