SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५६० ब्याश्रयमहाकाव्ये [दुर्लभराजः] योयूयः । अत्र “नोतः" [१६] इति न यङो लुप् ॥ अचोरयत् । नाटयत् । इत्यत्र "चुरादिभ्यो णिच्" [१७] इति णिच् ॥ नियोजयत्या वेत्रिण्याः संयोजन्ती करे करम् । नाम्ना दुर्लभदेव्यागान्महेन्द्रस्य स्वसा ततः ॥ ९२॥ ९२. ततोनन्तरं नाम्ना दुर्लभदेवी महेन्द्रस्य स्वसा स्वयंवरमण्डपमागात् । किंभूता सती । नियोजयन्त्या राजन्यचक्रदर्शनार्थं प्रेरयन्त्या वेत्रिण्याः प्रतीहार्याः करे करं संयोजन्ती संबध्नन्ती हस्तिका ददतीत्यर्थः ।। विलम्ब नासहन्भूपा नान्योदन्तमसाहयन् । सदो भावयमानां तां वीक्ष्य क्षोभं बभूविरे ॥ ९३ ॥ ९३. सदः सभां भावयमानां प्राप्नुवतीं तां दुर्लभदेवीं वीक्ष्य नृपाः क्षोभं बभूविरे प्रापुः । अत एव विलम्ब नासहन् । तत्प्राप्त्यौत्सुक्यात्कालक्षेपं न चक्षमुः । तथा तत्रैव गतचित्तत्वादन्योदन्तं दुर्लभदेव्या अन्यस्याः कामिन्या वार्तामपि नासाहयन्न सेहिरे॥ स्त्रीषु रत्नं बभूवैषा भवन्ती तादृशीं श्रियम् । जीवयन्ती यतोनङ्ग किंकरत्वमकारयत् ॥ ९४ ॥ ९४. एषा दुर्लभदेवी स्त्रीषु नारीजातिमध्ये रत्नमुत्कृष्टा बभूव । यतो यस्माद्धेतोरेषानङ्गं किंकरत्वं स्वादेशकारितामकारयत् । कीह - - १ ए नन्तं किं. २ ए योजं सं. बी योजयन्ती. ३ सी डी नती ह. १ डी ति य. ४ ए भं विभू. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy