SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ [है० ३.४.१.] सप्तमः सर्गः। तां रूपाद्यतिशयेन प्रसिद्धां कन्यां महेन्द्रस्वसारं कामयमानोभिलषन् ॥ दृष्ट्वा विच्छायितारं तं पणायितृपथे तदा । अनुविच्छिन्यभूत्काचित्पणित्री नेष्टवस्तुनः॥ ७७ ॥ ७७. तदा पुरप्रवेशकाले काचिन्नायिका तद्रूपाक्षिप्तत्वादनुविच्छित्री दुर्लभस्य पश्चौद्यान्ती सतीष्टवस्तुनः पणित्री व्यवही नाभूत् । किं कृत्वा । पाँयितृपथे वणिक्पथे हट्टमार्गे विच्छायितारं गच्छन्तं तं दुर्लभं दृष्टा ॥ पुरधूपायितुर्जेता धूपिता नः स्मरो ह्ययम् । इत्थमेनं पनायित्र्यां पनिळ्यासीन का तदा ॥ ७८ ॥ ७८. एनं दुर्लभं पनायित्र्यां स्तुवत्यां सत्यामर्थात्कस्यां चित्कामिन्यां का कामिन्येनं पनित्री स्तोत्री नासीत् । कथं पनायिच्यामित्याह । अयं प्रत्यक्षो दुर्लभो हि स्फुटं निश्चितं पुरधूपायितुत्रिपुरदाहकस्य हरस्य जेता स्मरोस्ति । यतः किंभूतः। नोस्माकं धूपिता रूपातिशयेनोत्कण्ठारणरणकादिविधानात्संतापकोस्माकं सन्तापकत्वादयं नूनं स्वारिं हरं जित्वा स्वमूर्तिधारी कामो वर्तत इत्यर्थ इत्थम् ॥ शचीकामयितुस्तुल्यं कमित्री कापि तं तदा । : अन्वर्तितारं खं बालमृतीयित्र्यजुगुप्सत ॥ ७९ ॥ । ७९. तदा प्रवेशकाले काप्यन्वर्तितारमनुयान्तं स्वं बालमजुगुप्सत १ सी डी गायतृ. २ डी ल्यं कामि'. १ ए °न्द्रदुहितरं. २ सी डी श्चादयन्ती'. ३ सी पणयित्री. ४ सी डी bणायतृ. ५ बी सी डी ई न्तं दु. ६ डी °स्य जे. ७ डी ता स्मा. ८ सी हरि जि. ९ई त्वा मू. १० डी त्यर्थः ।।. ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy