SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ध्याश्रयमहाकाव्ये [ मूलराजः] भ्योतद्गण्डान् मदक्षारिकपोलान् । भीमेन हि सुराष्ट्रशसिन्धुराजौ रणे जित्वा तद्गजेन्द्राः पत्तन आनीताः ॥ सम्राङ्सुराष्ट्रा । अस्मिन्त्सम्राड् । इत्यत्र “ः सः त्सोचः" [१०] इति सस्य त्सादेशो वा ॥ डकारनिर्देशाट्टत्वं न भवति ॥ केचिदृत्वमपीच्छन्ति । सिन्धुल्त्सिन्धुरान ॥ पक्षे। सुराष्ट्रारादसिन्धुराट् ॥ गण्डान् समानयत् ॥ स इति किम् । सिन्धुरान् रणात् ।। अश्व इति किम् । स्वाराट् श्योतित । कराञ्चयोतत् ॥ भजञ्छौर्य वहशौचं पालयञ्शरणागतान् । जनोस्यान्तरनन्तश्रीर्वदञ्च्योतति मर्विव ॥ ६९ ॥ ६९. अस्य पुरस्यान्तर्मध्ये शौर्य भजन्नत एव शरणागतांस्त्राणार्थिनः पालयन जनो भदलोको वदन् मयि रक्षके भवद्भिर्न भेतव्यमिति भाषमाणः सन्नभयवाक्यस्यातिसुखदत्वान्मध्विव श्योतति क्षरति । ननु लोभेन शरणागतान्पालयिष्यति । नेत्याह । शौचं निर्लोभतां वहन् यतो. नन्तश्रीरसंख्यलक्ष्मीकः । बहुलक्ष्मीको हि प्रायेण तृप्तत्वादेवंविधमशौचं न करोति । यद्वा । अनन्तस्येव श्रीर्यस्य सोनन्तश्रीविष्णुतुल्यः । विष्णुर्हि निरपेक्ष एव जगद्रक्षति ॥ प्रातरत्राग्निरादित्या अनन्त इन्द्र आसिताः । सुचेतश्यन्वेहि पय अनेत्रेत्यध्वरे गिरः ॥ ७० ॥ ७०. अत्र पुरेध्वरे यागे गिरो वर्तन्ते । अर्थादध्वयूणाम् । कथमित्याह । प्रातरित्यादि । केषांचिद्याज्ञिकानामेवं वाचो यथा हे सुचेतं३: शोभनमनस्क - १ सी डी °ध्विह ॥ १ एफ चित्तु ट. २ ए रासि. ३ सी डी °न् ग. ४ एफ श्योतति ।. ५ एफ °गतानां स्त्रा. ६ सी डी ति न. ७ एक्ष्मीको हि. ८ डी या गि'. ९ ए °तः३शो'. सी डी तः शो'. एफ त३शो'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy