________________
५४२
व्याश्रयमहाकाव्ये
[ वल्लभराजः]
न स्वरं व्यकरोद्राजानानयायच्छ मानया। शुचा नायच्छते स्मांही नाहते स्म शिरोपि च ॥ ५४॥
५४. आयच्छमानया दीर्धीभवन्त्या अत एवान्नानया पीडयन्त्या शुचा शोकेन हेतुना राजा न स्वरं व्यकरोद्विनाशितवान् । महापुरुषत्वाच्छोकेन न घर्घरस्वरोभूदित्यर्थः । तथांही नायच्छते स्म न विसंस्थुलं प्रसारितवान्नापि च शिर आहते स्म ॥
राजपुत्रस्य जानाना । इत्यत्र "ज्ञः” [८२] इत्यात्मने । “अज्ञाने ज्ञः षष्ठी" [२.२.८०] इति षष्ठी॥ उपतस्थे । अत्र "उपात्स्थः" [८३] इत्यात्मने ॥
संगच्छमाना । समृच्छन्ते । संपृच्छमाना । संशुश्रुवे । संविदानाम् । संस्वरमाणाम् । अर्तीति सामान्यनिर्देशादादिरदादिश्च गृह्यते । समृच्छन्ते । समियाणाः । संपश्यमाने । अत्र “समो गम्' [८४] इत्यादिनात्मने ॥
शोकपूर्णास्ते विचक्रिरे । स्वरानविकुर्वाणाः । अन्न ":" [८५] इत्यादिनात्मने ॥ अनाश इति किम् । स्वरं व्यकरोत् ॥
आयच्छमानया। आनानयो । स्वेङ्गे च कर्मणि । आयच्छते स्मांही। आहते स्म शिरः । अत्र “आङो यम" [८६] इत्यादिनात्मने ॥
शुचा वितपमानानितुल्ययोत्तपमानया । उत्तेपेझं नृपोन्ये वा के नाङ्गानि वितेपिरे ॥ ५५ ॥
५५. उत्तपमानयातितीव्रत्वेन प्रज्वलन्त्यात एव वितपमानो जा
१ सी डी नाशत. २ ए स्म वि०. ३ सी. °या। स्वाङ्गे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org