________________
[ है० ३.३.६९.] सप्तमः सर्गः।
५३५ तिष्ठामहे वः । त्वयि तिष्ठते प्रीतिः। अत्र "ज्ञीप्सास्थेये" [६४] इत्यात्मने ॥
केष्वप्यभयमातस्थे राज्यं समगरिष्ट च ।
कानप्यवागरिष्टेवापजानानः स तेजसा ॥ ३९॥ ३९. स वल्लभः केष्वपि भीतेषु राजस्वभयं भयाभावमातस्थे प्रतिज्ञातवान् । तथा केष्वपि निश्छद्माश्रितेषु राज्यं समैगरिष्ट च प्रतिज्ञातवांश्च । प्राक्तनं केष्वपीत्यत्रापि योज्यम् । तथा कानप्यनतान्नृपास्तेजसा प्रतापेनापजानानोपलपन्सन्नवागरिष्टेव समूलोन्मूलनेन नानोप्युच्छेदाद्स्तवानिव ॥
आतस्थे । अत्र "प्रतिज्ञायाम्" [६५] इत्यात्मने ॥ समगरिष्ट । इत्यत्र “समो गिरः" [६६] इत्यात्मने ॥ अवागरिष्ट । इत्यत्र "अवात्" [६७] इत्यात्मने । अपजानानः । अत्र “निवे ज्ञः" [६८] इत्यात्मने ॥
संजानानास्तादृशं तं संजानन्तो हरेस्तदा ।
जगज्झम्पननाम्नोच्चैः प्रत्यजानत भूभुजः ॥४०॥ ४०. तदा यात्राकाले तं वल्लभं भूभुजो जगज्झम्पननाम्ना जगतोर्थाच्छत्रुलोकस्य झम्पनोतर्कितमुपरिपातुकस्तेन नानोच्चैः प्रत्यजानताभ्युपागच्छन् । किंभूताः सन्तः । तादृशं जगज्झम्पनेति नाम्नः सदृशं शत्रुलोकं झम्पयन्तमित्यर्थः । संजानानाः पश्यन्तोत एव हरेः सिंहस्य संजानन्तः स्मरन्तोस्मिञ् जगज्झम्पनतालक्षणसिंहसाधर्म्यदर्शनासिंह स्मरन्त इत्यर्थः ।।
तं संजानानाः । तं प्रत्यजानत । इत्यत्र “संप्रतेरस्मृतौ" [६९] इत्यात्मने । अस्मृताविति किम् । हरेः संजानन्तः ॥
१बी सी निछमा डी निच्छद्मा . २ सी समाग'. ३ ए मगिरि. ४ ए प्रत्युजा. ५ सी डी नाः। प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org