________________
[है० ३.३.५९] सप्तमः सर्गः ।
५३३ अत्रोपतिष्ठते पारा सिन्धुमध्वैष कुन्तलान् । ब्रुवन्त इति राजान उपातिष्ठन्त केपि तम् ॥३५॥ ३५. केपि नृपास्तं वल्लभमुपातिष्ठन्त मैच्या हेतुना फलेन वाराधयन् । कीदृशाः सन्तः । ब्रुवन्तो वेत्रिवद्विज्ञपयन्तः। किमित्याह । अत्र देशे पारा पाराख्या नदी सिन्धुं सिन्ध्वाख्यनदीमुपतिष्ठत उपश्लिष्यति । तथैष प्रत्यक्षोध्वा मार्गः कुन्तलान्देशभेदानुपतिष्ठते गच्छतीति । एतेन वल्लभोवन्तिमध्ये प्रविष्ट इत्युक्तम् । तत्र हि पारासिन्धुमेलनादि वर्तते ॥
उपातिष्ठन्त तं मत्रैस्ते मार्गाश्रमतापसाः।
उपास्थुर्यानतिथयो ये दावृन्नोपतस्थिरे ॥ ३६ ॥ ३६. अतिथिवात्सल्यमहाधर्मनिष्ठत्वेन यानतिथय उपास्थुर्लिप्सयोपाश्रितास्तथा ये महातप:पात्रत्वेन शिलोञ्छवृत्तित्वाद्दातृन्दायकवृन्नोपतस्थिरे न लिप्सयोपाश्रितास्ते मार्गाश्रमतापसा मार्गनिकटाश्रमवर्तिमुनयस्तं वल्लभं वर्णाश्रमगुरुत्वान्मत्रैराशीमत्रादिभिरुपातिष्ठन्ताराधयन् ॥
तं नाह्वन्त । इत्यत्र "ह्वः स्पर्धे" [५६] इत्यात्मने ॥ स्पर्ध इति किम् । जयश्रियमाह्वयन्तम् ॥ संयमानाः । न्यह्वयन्त । व्यह्वास्त । इत्यत्र “संनिवेः" [५७] इत्यारमने ॥ उपाहृत । इत्यत्र "उपात्" [५८] इत्यात्मने ॥ उपायंस्त । इत्यत्र “यमः स्वीकारे" [५९] इत्यात्मने ॥ अध्वदेवता उपतस्थे । तमुपातिष्ठन्त । पारा सिन्धुमुपतिष्ठते । एषोध्वा
१बी निष्ठित्वे. २ सी प:प्रावत्वे', डी पःप्रभावत्वे. ३ सी डी य. कान्नो ४ ई कर्तृन्नो ५ बी हयत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org