________________
५१७
[है० ३.३.४ ] सप्तमः सर्गः। पञ्चमी मूर्ति मनाख्या सप्तमी मूर्ती रामचन्द्राख्याभूत्तयोस्तुल्योभूदित्यर्थः । अतश्चास्य चामुण्डराजस्य क्रियातिपत्ति: कार्यविनाशः श्वस्तन्यप्येष्यदिनभाविन्यप्युपलक्षणत्वाचिरकालभाविन्यपीत्यर्थः । आस्तां तावदद्यभाविनीत्यपेरर्थः । कचित्कस्मिन्नपि स्थाने नाशङ्कि न संभाविता । अर्थात्सर्वजनेन ॥ ...... आशिषास्य भविष्यन्तीं जनता पितरौ सुराः।
अस्यति स्मास्यतः स्मास्यन्ति स्म चाजस्रमापदम् ॥ ५॥ । ५. आशिषा जय जीव नन्देत्यादिमङ्गलशंसनेनास्य राज्ञो भविव्येन्ती भाविनीमापदमजस्रं सदा जनता जनौघोस्यति स्म क्षिप्तवती। पितरौ च मातापितरौ चास्यतः स्म । सुराश्चास्यन्ति स्म । एतेन न्यायित्वविनीतत्वधार्मिकत्वादिगुणैर्जनतापितृसुरा अनेनानन्दिता इ. त्युक्तम् ॥
किं न पश्यसि पश्यामि पश्यावः पश्यथो नु किम् । • पश्यामः पश्यथेत्यासद्वारेस्य क्ष्माभुजां गिरः ॥ ६॥
६. अस्य राज्ञो द्वारे सिंहद्वारे माभुजां गिरोभवन् । कथमियाह । किंशब्दौ नुश्चाक्षमागर्भे प्रश्नत्रये । अहो क्ष्माभुक त्वमर्थान्ममोपरिपतनादि कुर्वन्कि न पश्यसि मां नालोकयसि । एवं पृष्टः स प्रत्याह । पश्याम्यवलोकयन्नस्मि । तथा हे क्ष्माभुजौ युवां नु किं न पश्यथः । नत्रापि योज्यः । तावपि प्रत्याहतुः । पश्यावः । तथा ... १ ई आसिषा. २ सी यन्ती ज. ३ ए गिxxx रोभ.
१ई 'श्चामु. २ सी यार्य'. ३ ए सी डी श: स्वस्त. ४ ए ई काले भा'. ५ सी ध्यन्ती भा . ६ सीडी रे मा. ७ सी किमश. ८ सी डी शब्दो नु. ९ ए हो क्षाभु. १० ए °सि मा ना. ११ डी वां किं. १२ बी श्यथ । न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org