SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ [ है० ३.२.७९. ] षष्ठः सर्गः । ४८३ विश्वस्मिन् राजन्ते ये तान्विश्वराजोपि च नृपांश्च प्रेरयति स्म । कीदृक् प्रभयाङ्गकान्त्या कृत्वा वैश्वानरो नु विश्वानरं स्यर्षेरपत्यमिव बिदादित्वादम् [ ६.१.४१ ] । वहितुल्यस्तथा प्रभया क्षात्रतेजसातिविश्वामित्रो विश्वामित्रं गाधिनन्दनमतिक्रान्तोत एव विश्वावसुना देवविशेषेण गीता कीर्तिर्यस्य सोत एव च विश्वस्मिन्सर्वत्र राजते विश्वाराट् ॥ न पैतृवल्यं न च मातृवल्यं सूनो रणे सप्तचितीकवद्यत् । एकाक्यगादित्यनुचिन्त्य दात्राकर्णेद्विपैः स स्वयमप्यचालीत् ॥ ६४ ॥ ६४. दात्रमिव दात्रं चिह्नं कर्णयोर्येषां तैर्द्विपैः स मूलराज: स्वयमप्यचालीत् । किं कृत्वा । अनुचिन्त्य । किमित्याह । यद्यस्मा - द्धेतोः सूनोश्चामुण्डराजस्य पितास्यास्ति पितृवलस्तस्य भावः पैतृवल्य पितृयुक्तता नास्ति मातृवल्यं मातृयुक्तता च नास्ति तस्मात्परमार्थतः सूनुरेकाक्यसहाय एव सप्तचितीकवत् । सप्त चितयोस्मिंस्तस्मिन्निवातिरौद्रत्वात्सप्तचितिश्मशानतुल्ये रणेगादिति ॥ दृष्ट्वाष्टक र्णाश्वसमैः पुरोश्चैरच्छिन्नकर्णैर्वलितान्नृपांस्तान् । स विष्टकर्णैः सह भिन्नकणैर्दध्याविति स्वस्तिककर्णकैश्च ॥ ६५ ॥ 1 ६५. स मूलराज इति वक्ष्यमाणं दध्यौ । किं कृत्वा । अवैः सह तान्युद्धार्थं प्राक्प्रेरितान्पुरगावणेशादिनृपान्वलितान्पुरो दृष्ट्वा । किंभूतैरश्वैः । अष्टकर्णाश्वसमैः स्वामिचिह्नार्थमष्टप्रकारौ कर्णौ यस्य स योश्व उच्चैःश्रवास्तेन समैः । तथा न च्छिन्नौ स्वामिचिह्नार्थं छेदा १ बी डी 'तृबल्यं. १ ए सी डी 'रस्यार्षे. "त्यं...मा ं. ५ डी योस्मिन्नि Jain Education International २ ए सी गाधन ३ सी 'तो सू. ४ डी ६ बी 'पान्चलि. ७ ए सी 'मिनि चि. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy