________________
४७०
व्याश्रयमहाकाव्ये [चामुण्डराजः] त्वं मद्रिकाम्बो नु सहोसि दत्ताभार्य द्वितीयामतिराशु कर्तुम् । आक्रन्दिकाभार्यममुं तथाप्येष्यामो वयं विक्रममीक्षितुं ते ॥४१॥
४१. हे कुमार यद्यपि त्वं द्वितीया लोकेभ्योन्या सर्वोत्कृष्टेत्यर्थः । मतिर्यस्य स तथा सन् दत्ताख्या भार्या यस्य तममुं लाटमाक्रन्दिकाभार्य लाटवधेन रुदद्भार्यमाशु कर्तुं सहोसि शक्तोसि । क इव । मद्रिकाम्बो नु । मद्रेषु भवा । वृजि' [६.३.३८] इत्यादिना के मद्रिकाम्बा माता यस्य स नकुलः सहदेवो वा स इव । तथापि ते तव विक्रममीक्षितुं वयमेष्यामः॥
तद्धित। मद्रिकाम्बः ॥ अंक । आक्रन्दिकाभार्यम् ॥ पूरणी । द्वितीयामतिः ॥ आख्या । दत्ताभार्यम् । इत्यत्र "तद्धिताक' [५४] इत्यादिना न पुंवत् ॥ तं वैदिशीमातृकमेतु नैयङ्कवीमतिं कुञ्जर एष लाटम् । प्रामोतु नैयङ्कवबुद्धितायाः फलं स माञ्जिष्ठपटीक आरात् ॥४२॥
४२. एष कुञ्जरो वैदिशी विदिशापुयाँ भवा जाता वा माता यस्यं स तं लाटमेतु । यतः किंभूतम् । न्यङ्कर्मंगभेद: कृष्णस्त्रिकेण विपुल: कुटिलस्वभावश्च । तस्येयं नैयङ्कवी सा मतिर्यस्य तं महाकुलक्षणेभप्रेषणात्कुटिलमतिमित्यर्थः । ततश्च स लाटो नैयङ्कवबुद्धिताया अस्याः कूटमतेः फलमाराददूराच्छीघ्रं प्राप्नोतु । किंभूतः । माजिष्ठी मंञ्जिष्ठया रक्ता पटी यस्य सः । लाटदेशे हि माञ्जिष्ठी पटी भूमिजलादिगुणेनातिसुरङ्गा प्रायः स्यात् ॥
१ ए सी लाधव. २ ए सी डी ससह. ३ ए सी ते व. ४ बी अक् । आ. ५ ए सी त् । इव । तथापि ते न विक्रममी ॥. ६ ए सी डी दिशि पु. ७ ए सी डी ता च मा. ८ ए सी स्य ततं. बी स्यतं. ९ डी 'तः । म. १० ए सी मजिष्ठ'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org