________________
व्याश्रयमहाकाव्ये [चामुण्डराजः] द्यावापृथिव्योमघवत्यदृश्ये दिवस्पृथिव्योर्नहुषेण पात्रा । दिवःपृथिव्युत्तरधीः स पृष्टो गुरुर्निनिन्देदृशमल्पवंशम् ॥ ३५ ॥
३५. दिव:पृथिव्युत्तरधीर्यावापृथिव्योर्मध्ये सर्वोत्कृष्टबुद्धिः स प्रसिद्धो गुरुर्ब्रहस्पतिरीदृशमल्पवंशं लघुपृष्ठावयवविशेषं गजं निनिन्द । बार्हस्पतीयगजशास्त्रे हि गजस्याल्पवंशत्वं महापलक्षणमुक्तम् । कीहक्सन् । द्यावापृथिव्योर्मध्ये मघवतीन्द्रेदृश्ये ताभ्यां बहिर्नष्टत्वाददृश्यमाने सति दिवस्पृथिव्योः कर्मणोः पात्रा रक्षकेण तयोः स्वामिनेत्यर्थः । नहुषेण नहुषाख्येण नृपेणेन्द्रीभूतेन पृष्टः ॥
किल वृत्रदैत्यं रणे हन्तुमशक्नुवञ् शक्रस्तं मित्रीकृत्य विश्वस्तं सुप्तमवधीत्ततश्च वृत्तकपालरूपिणी विश्वस्तमित्रहत्येन्द्रस्य पृष्ठं कथमपि यावन्न मुञ्चति तावदिन्द्रो द्यां सप्तद्वीपवती पृथ्वीं चोल्लङ्घय क्षीराब्धिसमीपस्थाब्जनालमध्ये कृमीभूय निलीनस्ततो नि:स्वामिकत्वाद्व्याकुलैःवैस्तदा सर्वोत्कृष्टो नृपो नहुषः स्वर्गे नीत्वेन्द्रः कृतो रोदस्यौ पाति स्मेति पुराणम् ॥
यावापृथिव्योः । अन्न "दिवो द्यावा" [४४] इति दिवशब्दस्य द्यावा इत्यादेशः॥
दिवस्पृथिव्योः दिवःपृथिवी । अत्र “दिवस्' [५] इत्यादिना दिवस इति दिव इति चादेशौ वा ॥ पक्षे द्यावापृथिव्योः ॥
१ ए सी टोगुरु.
- १ ए सी डी दिवस्पृथि. २ ए सी धुप्रष्ठा . ३ सी °स्पत्यीय. ४ ए सी मणो पा. ५ बी र्थः । निहुषेण निहु. ६ ए सी तो निस्वा. डी तोस्वा. ७ ए दिवपृथि . सी दिवपृथि .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org