SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४६० व्याश्रयमहाकाव्ये [चामुण्डराजः] ब्धेर्जातत्वेनाप्सु जलेषु भवो दिव्यः स्वर्गस्थत्वादिवि स्वर्गे भवश्च योश्व उच्चैःश्रवास्तत्समाः ॥ अप्सव्य । अप्सुयोनि । असुमतिः । अप्सुचर्यः । इत्यत्र "अपो य" [२८] इत्यादिना सप्तम्यलुप् ॥ काम्पील्यसिद्धः खधुनीतटस्थोध्ववति चौरस्यकुलं दधानान् । त्वदाज्ञयोच्छिद्य खसान्स दास्याःपुत्रानमंतच्छ्यिमार्पयत्ते॥२६॥ २६. स प्रसिद्धः काम्पील्यसिद्धः काम्पील्यं पञ्चालदेशस्थं पुरं तत्राधिपत्वात्सिद्धो विख्यातः पञ्चालराज: खधुनीतटस्थः खसजयार्थ काम्पील्यपुरपरिसरवर्तिगङ्गातटे कृतावासः सन्खसान्क्षत्रियभेदांस्त्वदाज्ञयोच्छिद्योत्पाट्या प्रत्यक्षां तच्छ्रियं खसँद्धिं ते तुभ्यमार्पयत् । किंभूतान्खसान् । अध्ववर्ति पान्थलुण्टनाय मार्गसमीपस्थं चौरस्यकुलं निन्दितचौरवर्ग दधानांस्तथा दास्या:पुत्रान्दासीपुत्रत्वेन निन्द्यान् ॥ शैलोनतः प्रेषित एष दासीपुत्रंद्रिपो द्वारपलाटभा । हृत्पाश्यतोहर्यधरोतिवाचोयुक्तिर्दिशोदण्डपदे महेभः ॥२७॥ २७. दासीपुत्रंन्तोकिंचित्करत्वादासपुत्रवदाचरन्तो रिपवो यस्य हे दासीपुत्रंद्रिपो एष प्रत्यक्षं प्राभृतीकृतो महेभो द्वारपलाटभा द्वारपाख्येन लाटदेशाधिपेन दिशोदण्डपदे दक्षिणाशामुक्तिपदे प्रेपितः । कीदृक् । शैलोन्नतोत एव पश्यन्तमनादृत्य हरति लिहायचि [५.१.५०.] पश्यतोहरो यः पश्यतो हरेदर्थं तस्य भावः पाश्यतोहयं हृदां जनचित्तानां पाश्य १ ए सी त्रद्विपो. १ ए सी डी पील्यं. २ ए सी डी थं...ग. ३ ए सी “त्यख्या त°. ४ ए सी सद्धि ते. ५ बी व्रतोकिं. ६ सी द्विपो. ७ ए सी वः पश्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy