________________
४५८
व्याश्रयमहाकाव्ये
[चामुण्डराजः]
सादस्तत्र जातो महाकालिकावरेजश्च गौरीप्रसादे जातश्च स प्रसिद्धः कोल्लापुरेश्वरः कोल्लापुराख्यमहापुराधिपः पद्मरागाँल्लोहितकमणीन्प्रैषीत् । कीदृशान् । सारसिजं वनं नु रक्तत्वादिगुणै रक्तोत्पलसत्कवनतुल्यान् । कोल्लापुरे ह्यतिश्रेष्ठाः पद्मरागाः स्युः । यतः किंभूतस्य ते । अरय एव मनोजः कामस्तत्र शंभोविनाशकस्येत्यर्थः । शंभोहि पूजार्थं शंभुर्भक्त: सारसिजं वनमिव पद्मरागान्प्रेषयति ॥ अस्त्रं नवं मानसिजं वरैणक्षरेजपङ्घ क्षरजाग्नितेजः । इन्द्राण्युरोजोचितमद्विजोरसिजोचितं ढोकयति स्म कीरः॥२३॥ ___ २३. क्षरो मेघो जलं वा तत्र जातो योग्निविद्युद्वडवानलो वा तद्वत्तेजो यस्य हे क्षरजाग्नितेजो वराः सुजात्या य एणास्तेषां यः क्षरो मूत्रं तत्र जातो यः पङ्कस्तं जात्यकस्तूरिकामित्यर्थः । कीरः कश्मीराधिपो ढोकयति स्म त्वदर्थं प्रेषितवान् । कीदृशम् । नवमग्रेतनास्त्रेभ्यः पुष्पेभ्यो गन्धोत्कृष्टत्वेनात्यन्तं कामिनां वशीकारकत्वादभिनवं मानसिजं कान्दर्पमस्त्रं शस्त्रमिव । अत एवेन्द्राण्युरोजोचितमद्रिजोरसिजोचितं च । शचीगौरीस्तनयोर्मण्डनाय योग्यम् । कश्मीरेषु हि मृगविशेषमूत्रात्प्रकृष्टकस्तूरिका स्यात् ॥
तोयेशयम् तोयशैय । अन्तेवासिनम् अन्तवासी। वनेवास वनवास । इत्यत्र "शय" [२५] इत्यादिना वा सप्तम्यलुप् ॥ अकालादिति किम् । सायाह्नशयानि ॥
वर्षेज वर्षज । क्षरेज क्षरंज । वरेजः वरजः । अप्सुज अब्जानि । सारसिजम् सरोज । शरेज शरज । उरसिज उरोज । मानसिजम् मनोज । इत्यत्र “वर्ष" [२६] इत्यादिनी वालुप् ॥
१ बी डी रागालो. २ ए सी भक्त सा. ३ ए सी नास्येभ्यः. ४ बी पुष्फेन्यो'. ५ ए सी रत्वा. ६ ए बी सी च । सची. ७ सी डी शयः । अं. ८ सी सम्य'. ९ बी रजः । व° १० बी नाल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org