________________
४०६
व्याश्रयमहाकाव्ये
[ मूलराजः ]
धेनुप्रियाः स्युः । स प्राहरिः शङ्खमादध्मौ च न केवलं क्ष्वेडां विदधे विजयशङ्खमवादयच्च । कीदृक्सन् । प्रतीच्यः पश्चिमाः कविरूढिमा - श्रित्य मध्यदेशापेक्षया वैयाकरणमतं चाश्रित्येशानतो नैर्ऋतिं गच्छन्त्याः शरावतीया अपेक्षया सुराष्ट्राणां पश्चिमत्वात्सुराष्ट्र देशोद्भवा गावो धेनवो धनं येषां तान्प्रयैग्गवधनान्नृन् सौराष्ट्रान्प्रीणन् शत्रुजयेनाहादयन् । कीदृशं शङ्खम् | आपरार्णवं पश्चिमान्धौ जातम् । तथाधिकषाष्टिकमधिकया षष्टयार्थाद्रम्मादीनां क्रीतं श्रेष्ठत्वेन महामूल्यमित्यर्थः ॥
मूलराजोय दाशार्हपाण्मातुरगुरूपमः ।
arrated सास्त्रां द्वितूणीं दधदुत्थितः ॥ ८० ॥
८०. अथ शङ्खध्मानानन्तरं द्वे अहनी जातस्य "सर्वाश” [ ७.३. ११८] इत्यादिनाव्यह्नादेशे च व्यह्नजातो य आहवो रणस्तत्र मूलराजो रणायोत्थितः । कीदृक्सन् । दशार्हस्य वसुदेवस्यायं दाशाहों विष्णुः षण्णां मातॄणां कृत्तिकानामपत्यं "संख्यासम्" [६.१.६६ ] इत्यादिनाणि मातुरादेशे च षाण्मातुरः स्कन्दस्तस्य गुरुः पिता शिवो द्वन्द्वे ताभ्यासुपमा शूरत्वादिगुणैः साम्यं यस्य सः । अत एव सास्त्रां बाणपूर्णां द्वितूणीं तूणीरौ दधत् ॥
रणदेयाम् । इत्यत्र “कृद्येन" [१५] इत्यादिना तत्पुरुषः ॥
नीलोत्पलैः । इत्यत्र “विशेषणं" [ ९६] इत्यादिना कर्मधारयः || विशेषणविशेष्ययोः संबन्धिवचनत्वादेकत रोपादानेनैव द्वये लब्धे द्वयोरुपादानं परस्परमुभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्यादित्येवमर्थम् । तेनेह न स्यात्तक्षकः सर्पः । लोहितस्तक्षकः । नासर्पोन्यवर्णो वा तक्षकोस्ति ॥ यस्तु गुणादिशब्दानामेव समासस्तत्रो भयोरपि पदयोरप्रधानत्वात्कामचारेण पूर्व१ सी हरिश° २ ए सी डी नैरुति. ३ ए व्ययग्ग. ४ सी मुपप.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org