________________
[है० ३.१.५८.] पञ्चमः सर्गः।
३९३ वर्षजात । व्यब्दजात । इत्यत्र “कालः'' [५७] इत्यादिना तत्पुरुषः॥ स्वयमुद्युक्तः । सामिविद्रुतम् । इत्यत्र "स्वयं'' [५८] इत्यादिना तत्पुरुषः ॥
अखट्टारूढभूपालाः षण्मुहूर्ता न्वहःसृताः। तस्थुस्तद्वृद्धये पार्वेहोरात्रस्नेहशालिनः ॥ ५६ ॥ ५६. अखट्वारूढा अनिन्द्या ये भूपाला नृपास्ते तद्वृद्धये तस्य ग्राहारेविजयोत्थस्फीत्यर्थ ग्राहारेः पार्वे तस्थुः । यतोहोरात्रं सदा यः स्नेहोनुरागस्तेन शालन्ते शोभन्ते तं शलन्ति वा गच्छन्तीत्येवंशीलाः षण्मुहूर्ता न्वहःसृता इति । यथा षड् मुहूर्ता घटिकाद्वयमानकालविशेषा अहोरात्रस्नेहशालिनो दक्षिणायने रात्रिचारित्वादुत्तरायणेहश्चारित्वाच्चाहोरोत्रेषु यः स्नेहः सदा सहचारित्वेनानुराग इव तच्छालिनोत एवाहर्दिनं सृताः संक्रान्ताः सन्तस्तद्वृद्धयेहर्वृद्धये पार्वे दिनमध्ये तिष्ठन्ति । मध्यदेशे हि सूर्योदयास्तविशेषेण दिनं नक्तं च परमबृहदृष्टादशमुहूर्तमानं परमलघु च द्वादशमुहूर्तमानम् । तत्र यदा दक्षिणायनं स्यात्तदा कर्कसंक्रान्त्यादिदिनादारभ्य धनुःसंक्रान्त्यन्त्यदिनं यावत्प्रतिसंक्रान्ति दिनेभ्यो रात्रिध्वेकैकं मुहूर्त संचरति । यावउनुःसंक्रान्त्यन्त्यदिने षडपि मुहूर्ता रात्रिषु दिनेभ्य: संक्रामन्ति । यदा चोत्तरायणं स्यात्तदा मकरसंक्रान्त्यादिदिनादारभ्य मिथुनसंक्रान्त्यन् दिनं यावत्प्रतिसंक्रान्ति रात्रिभ्यो दिनेष्वेकै मुहूर्त संचरति । यावन्मिथुनसंक्रान्त्यन्त्यदिनं रात्रिभ्यो दिनेषु षण्मुहूर्ताः संक्रामन्ति । अत एव वृत्तावुक्तं षण्मुहूर्ताश्चराचरास्ते रात्रौ गच्छन्ति दक्षिणायन उत्तरायणे त्वहरिति । तथा चोक्तं भगवति श्रीजैनागमे ।
१ ए सी डी हः स्मृताः ।।
१ डी रात्रं स्ले . २ सी होसनेषु. ३ सी °न्त्यदि. ४ सी दिनरा. ५ सी वुक्तष.
५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org